________________
न्यायकोशः ।
प० १७ ) । ६ तदधिकरणावृत्तित्वेन ज्ञायमानत्वम् (वै० उ० ९ । १।८ ) । ज्ञायमानत्वमित्यत्र ज्ञानपदं प्रमापरम् । तेन घटत्वादेः समानाधिकरणधर्मस्य घटाद्यभावीय प्रतियोगितावच्छेदकत्वनिरासः । यथा घटस्वेन पटो नास्तीत्यादौ घटत्वे पटनिष्ठप्रतियोगिताया अवच्छेदकत्वम् । अत्र तृतीयान्तोल्लेख्यस्यावच्छेदकत्वम् इति नियममनुसृत्य केवलान्वयी व्यधिकरणधर्माच्छन्नाभावः सौन्दडोपाध्यायेन स्वीकृतः । गङ्गेशोपाध्यायादयो नैयायिकास्तु नेमं व्यधिकरणधर्मावच्छिन्नाभावं स्वीचकुरिति विज्ञेयम् । यद्यप्येतस्यार्थान्तराभिप्रायेणोञ्चारितस्यात्र ग्रहणं नोपस्कारसंदर्भमनुसरति तथाप्यत्रार्थेपि नियोक्तुं युज्यत इति मयायं शब्दोत्र गृहीत इति बोध्यम् । ७ विशेषणत्वम् । यथा वक्तज्ञानावच्छेदकतयेत्यादौ ( कु० ३ श्लो० १४ व्या० ता० पृ० ३४ ) । ८ नियामकत्वमेवावच्छेदकत्वमिति केचिद्वदन्ति ( वाच० ) । सामान्यतोवच्छेद्यावच्छेदकभावो द्विविधः । स्वरूपसंबन्धरूपः व्याप्यव्यापकभावश्च । तत्राद्यो यथा इदानीं चत्वरे गौर्नास्तीत्यादावेत कालगवाभावयोरवच्छेद्यावच्छेदकभावः । अत्र एतत्कालावच्छेदेन ( एतत्काले ) गवाभावः इति शाब्दबोधो भवतीति बोध्यम् । यथा वा मूलावच्छिन्नो वृक्षः कपिसंयोगीत्यादौ मूलादिसंयोगाद्योरवच्छेद्यावच्छेदकभावः । द्वितीयो यथा पृथिवी रूपवतीत्यादौ रूपपृथिवीत्वयोरवच्छेद्यावच्छेदकभाव: ( ग० पक्ष० पृ० २० ) । अत्र पृथिवीत्वव्यापकं रूपम् इति शाब्दो बोधो भवतीति बोध्यम् ।
८६
अवच्छेद्यत्वम् – अवच्छिन्नत्ववदस्यार्थोनुसंधेयः ।
अवच्छेद्यावच्छेदकभावावगाहिनी - ( अनुमितिः ) [क] पक्षतावच्छेदकाक्रान्तयावद्व्यक्ति विषय कानुमितिरिति प्रानो नैयायिका वदन्ति । इयं च देशकालभिन्नानां यत्र पक्षतावच्छेदकता तादृशस्थलीयेति ज्ञेयम् । एवमुत्तरत्रापि । [ख] पक्षतावच्छेदकव्यापकत्वविशिष्टसाध्यतावच्छेदकसंबन्धावच्छिन्ना साध्यतावच्छेदकावच्छिन्ना या विधेयता तच्छालिन्यनुमितिरिति नवीन नैयायिकाः प्राहुः । यथा पर्वतत्वावच्छेदेन वहाँ साध्ये
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org