________________ 1084 न्यायकोशः। हवः-(चौर्यम् ) बोधविषयमितरादर्शनयोग्यदेशस्थापः। यथा गोपी कृष्णायात्मानं हृते इत्यत्र झुधात्वर्थः / अत्र सपत्नीभियात्मादेस्तथा स्थापनं बोध्यम् / एवं च गोपीकर्तृका कृष्णसंप्रदानिका अर्थात् कृष्णवृत्तिबोधविषयात्मकर्मकतथावस्थानानुकूला क्रिया इति बोधः ( ल० म० कार०४ पृ० 103 ) वैयाकरणमते भवतीति बोध्यम् / ह्यः (अन्रायम् ) अव्यवहितातीतदिवसः (वै० सा० द०)। यथा - प्रस्तने अहमागतः इत्यादौ / हृदः-१ अगाधजलाशयः ( अमरः 1 / 10 / 25 ) / यथा हृदो वह्निमान् * धूमात् इत्यत्र वह्नयभाववद्भदो बाधः इत्यादी ग्रन्थे हृदशब्दस्यार्थः / तज्जलगुणाश्च हृदवारि वह्निजननं मधुरं कफवातहारि पथ्यं च - (वाचस्पत्ये राजनि० ) इति / 2 किरणः ( रामाश्रमः ) / ह्रस्वत्वम्-१ (गुणः) इदं ह्रस्वम् इति व्यवहारसिद्धः परिणामविशेषः (वै० .. वि० 7 / 1 / 17 ) / 2 एकमात्राकालोच्चार्यत्वम् इति शाब्दिका आहुः / . 3 भूमिजम्बूवृक्षस्य धर्मविशेषो ह्रस्वत्वम् इति वनस्पतिशास्त्रज्ञा आहुः / हादः-१ आनन्दविशेषः / यथा यथा प्रह्लादनाच्चन्द्रः (रघु०४।१२) इत्यादौ हादनशब्दार्थः / 2 आलंकारिकास्तु चमत्कृतिः। यथा चन्द्र इव मुखं लोका म्हादयति इत्यादौ ह्रादधात्वर्थश्चमत्कृतिः इत्याहुः इति संक्षेपः इति शम् // इति श्रीमत्सकलसद्विद्वद्वन्दसंसेव्यवैष्णवमतावतंसश्रीमध्वसिद्धान्तानुयायिनः कर्णाटदेशीयझळकीग्रामनिवासिश्रीयुतरामभट्टात्मजस्य श्रीयुतसरस्वतीतनूद्भवस्य श्रीयुतभिकुशास्त्रिभ्योधीतन्यायशास्त्रस्य मुंबईस्थैल्फिन्स्टन्पाठशालायां न्यायाधनेक दर्शनाध्यापकस्य आङ्ग्लभूपालप्रदत्तमहामहोपाध्यायपदाङ्कितस्य - च भट्टभीमाचार्यस्य कृतौ न्यायकोशः समाप्तः // न्यायकोशस्य द्वितीयावृत्तौ शब्दानां संख्या 1894 आसीत् / अस्या तृतीयावृत्तावधिका शब्दाः 668 संगृहीताः / संकलनया चात्र शब्दानां संख्या 2562 वरिवति / अब्धीन्द्विभेन्दुमानेन ( 1814 ) मिते शाके च नन्दने / वत्सरे ( ख्रिस्त्यब्दाः (1892) भट्टभीमेन न्यायकोशः समापितः // 1 // अनेन पुष्पकोशेन कालान्तरविकासिना। समर्पितेनाञ्जलिना प्रीयतां पुरुषोत्तमः // 2 // ॥श्रीशः शंकरो भवतु // - Jain Education International For Personal & Private Use Only www.jainelibrary.org