________________
१०६२
न्यायकोशः। रूपम् । अत्र भाष्यम् । अनुमानम् द्विविधम् दृष्टं सामान्यतोदृष्टं च । तत्र दृष्टम् प्रसिद्धसाध्ययोरत्यन्तजात्यभे मानम् । यथा गव्येव सानामात्रमुपलभ्य देशान्तरे सास्नामात्रदर्शनाद्गौरिति प्रतिपत्तिर्भवति । प्रसिद्धसाध्ययोरत्यन्तजातिभेदे लिङ्गानुमेयधर्मसामान्यानुवृत्तितोनुमानं सामान्यतोदृष्टम् । यथा कर्षकवणिग्राजपुत्राणां प्रवृत्तेः साफल्यमुपलभ्य वर्णाश्रमिणामपि दृष्टं प्रयोजनमुद्दिश्य प्रवर्तमानानां फलानुमानमिति । तत्र लिङ्गदर्शनं प्रमाणम् । प्रमितिरग्निज्ञानम् । अथ वाग्निज्ञानमेव प्रमाणम्। प्रमितिरग्नौ गुणदोषमाध्यस्थ्यदर्शनम्। तत्स्वनिश्चितार्थमनुमानम् (प्रशस्त० २ गु० पृ० ४५) इति । स्वार्थानुमानस्य प्रयोजनं तु स्वस्यैवानुमिति (त० सं० )। तथा हि कश्चित्पुरुषः स्वयमेव भूयोदर्शनेन यत्र धूमस्तत्राग्निः इति महानसादौ व्याप्तिं गृहीत्वा पर्वतसमीपं गतस्तद्गते चाग्नौ संदिहानः पर्वते वर्तिनीमविच्छिन्नमूलामभ्रंलिहां धूमलेखां पश्यन् धूमदर्शनादुद्बुद्धसंस्कारो व्याप्तिं स्मरति यत्र धूमस्तत्राग्निः इति । तदनन्तरं वह्निव्याप्यधूमवानयं पर्वतः इति ज्ञानमुत्पद्यते । अयमेव लिङ्गपरामर्शः इत्युच्यते । तस्मात् पर्वतो वह्निमान् इति स्वस्य ज्ञानमनुमितिरुत्पद्यते । तदेतत्स्वार्थानुमानम् (त० सं०) (त० भा० पृ० ११)। २ स्वप्रयोजनम् । यथा मनीषिणः स्वार्थमुद्दिश्य प्रयतन्ते इत्यादौ स्वार्थशब्दस्यार्थः । ३ स्वाभिधेयः । यथा स्वार्थकः स्वार्थबोधकृत् इत्यादी स्वार्थशब्दस्यार्थः ( शब्द० च० )। व्यवहारशास्त्रज्ञास्तु स्वस्वत्वकं धनं
स्वार्थम् इत्याहुः। स्वाहा-१ [क] अग्निप्रक्षेपोपहितदेवोद्देश्यकत्यागः । यथा इन्द्राय
स्वाहा इत्यादौ स्वाहाशब्दस्यार्थः (ग० व्यु. का० ४ पृ० १००) ( अमरः ३।४।८) । वेदादेशितोच्चारणकर्तृत्वोपलक्षितपुरुषीयत्यागः इति फलितोर्थः । तेन तात्रिकपूजायामाचमनीयादिदाने स्वहास्वधाशब्दप्रयोग उपपद्यते (ग० व्यु० का० ४ पृ० १०१)। [ख] स्वत्वकरणको हविस्त्यागः । यथा इदमग्नये स्वाहा इत्यादौ स्वाहाशब्दस्यार्थः । अत्र देवोद्देश्यकस्य स्वाहापदकरणकस्य हविस्त्यागस्य कर्मेदम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org