________________
परिशिष्टम् ।
५६३ प्रमाणम् ( ॥३॥५४ )-मतभेदेन 'प्रमाणस्य संख्यात्वेऽनेकमतम् । तथा हि
'प्रत्यक्षमेके चार्वाकाः, 'कणाद सुगतो पुनः । प्रत्यक्षमनुमानच, साजयाः शन्दं च ते अपि ॥ न्यायैकदेशिनोऽप्येवमुपमानं च "केचन । मर्थापत्या सदैतानि चत्वार्याह प्रभाकरः ।। अभावषष्ठान्येतानि भाद्या वेदान्तिनस्तथा ।
सम्भवेतिपयुक्तानि तानि पौराणिका जगुः' ।। इति ।। तलम् ( ३।३।२०२)-अधोऽर्थक 'तल' शम्दस्य गरुडपुराणे सप्त भेदा उकास्ते यथा
'पादास्तात्तलं ज्ञेयं पादौ वितलं तथा । जानुनोः सुतलं विद्धि सक्थिदेशे महातलम् ॥ तलातलं सक्थिमूले गुह्य देशे रसातलम् ।
पातालं कटिसंस्थं च-' इति गाहपुराणे १५१५६-५७ ।। अग्निपुराणे सप्त तलान्युकानि । तथा हिमतलं वितलं चैव नितलं च गभस्तिमत् । महामं सुतलं चैव पातालं चापि सप्तमम् ॥ प्रमातस्तत्रत्यभूमिवर्णान्यप्युच्यन्तेकृष्णपीतारुणाः शुक्ल शर्कराः शैलकाचगाः । भूमयस्तेषु रम्येषुइति अग्निपुराणम् १२०।२-३ ॥
कला (३।३।१९८)-चतुःषष्टिः कलाः शैवतन्त्रोक्ता यथा-'गीतम् १, वाद्यम् २, नृत्यम् ३, नाट्यम् ४, आलेख्यम् ५, विशेषकच्छेद्यम् ६, तण्डुलकुसुम. बलिप्रकाराः ७, पुष्पास्तरणम् ८, दशनवसनागरागाः ९. मणिभमिकाकर्म १०, शयनरचनम् ११, उदकवाय मुदकपातः १२, चित्रयोगाः १३, माल्यप्रन्थविकल्पाः १४, शेखरापीड़योजनम् १५, नेपथ्ययोगाः १६, कर्णपत्रमशः १७, सुगन्धियुतिः १८,
१. वैशेषिकः।
२. बुद्धः। ४. न्यायसारस्य भूषणाख्यटीकाकारः । ६. कुमारिकमानुयायिनः।
३. प्रत्यक्षानुमाने। ५. अन्ये नैयायिकाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org