________________
लिङ्गानुशासनम् । पुरं साङ्गयोश्छत्रशीर्षयोः पुण्डरीकके। मधु द्रवे ध्रुवं शश्वतर्कयोः खपुरं घटे॥ ५५ अयूपे दैवेऽकार्यादौ, युगं दिष्टं तथा कटु। असे द्वन्द्वस्थले धन्वारिष्ठमद्रुमपक्षिणोः ॥ ५६ धर्म दानादिके तुल्यभागेऽध ब्राह्मणं श्रुतौ । न्याय्ये सारं पद्ममिभबिन्दौ काममनुमतौ ॥ ५७ खलं भुवि तथा लक्षं, वेध्येऽहः सुदिनैकतः ।
भूमोऽसंख्यात एकार्थे, पथः संख्याव्ययोत्तरः ५८ द्वन्द्वैकत्वाव्ययीभावौ, क्रियाऽव्ययविशेषणे । कृत्याः क्तानाः खलजिद्भावे, आ त्वात्त्वादिः समूहजः ५९ गायत्र्याधण्खार्थेऽव्यक्तमथानकर्मधारयः । तत्पुरुषो बहूनां चेच्छाया शालां विना सभा राजवर्जितराजार्थराक्षसादेः परापि च । आदावुपक्रमोपत्रे, कन्थोशीनरनामनि ॥ सेनाशालासुराच्छायानिशा वोर्णा शशात्परा । भाद्गणो गृहतः स्थूणा, संख्याऽदन्ता शतादिका ॥ ६२
मौक्तिकं माक्षिकं सौप्तिकं क्लीतकं,
नाणकं नाटकं खेटकं तोटकम् । आह्निकं रूपकं जापकं जालकं,
वैणुकं गैरिकं कारकं वासुकम् ॥ ६३
Jain Education International For Private & Personal Use Only
www.jainelibrary.org