________________
५८ अभिधानचिन्तामणौ मर्यकाण्डः ३ शूल्यं शुलाकृतं मांस, निष्काथो रसकः समौ । प्रणीतमुपसम्पन्नं, स्निग्धे मसणचिक्कणे ॥४१३॥ पिच्छिलं तु विजिविलं, विजळ विजिलं च तत् ।। भावितं तु वासितं स्यात्तुल्ये संमृष्टशोधिते ॥४१४॥ काञ्चिकं काञ्जिकं धान्यम्ला-नाले तुषोदकम् । कुल्माषाभिषुतावन्तिसोमशुक्तानि कुञ्जलम् ॥४१५॥ चुकं धातुघ्नमुन्नाह, रक्षोध्नं कुण्डगोलकम् । महारसं सुवीराम्ल, सौवीरं म्रक्षण पुनः ॥४१६॥ तैलं स्नेहोऽभ्यञ्जनं च, वेसवार उपस्करः ।। स्यात्तिन्तिडीके तु चुक्रं, वृक्षाम्लं चाम्लवेतसे ॥४१७॥ हरिद्री काञ्चनी पीता, निशाया वरवणिनी । क्षवैः क्षुताभिजनेनो, राजिका राजसपः ॥४१८॥ आसुरी कृष्णिको चासो, कुस्तुम्बुरे तु धान्यकर्म । धन्या धन्याक धान्याकं, मरिच कृष्णमूषणम् ॥४१९॥ कोलक वेलज धार्मपत्तनं यवनप्रियम् । । शुण्ठी महौषधं विश्वौ, नागैर विश्वभेषजम् ॥४२०॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org