________________
अभिधानचिन्तामणौ मर्यकाण्डः ३ ७ पयस्यं घृतदध्यादि, पेयूँषोऽभिनवं पय उभे क्षीरस्य विकृती, किलाटी' कूर्चिकापि च ||४०५॥ पायस परमान्नं च, क्षरेयी क्षीरज दधि । गोरसश्च तदधनं, द्रप्स पत्रलमित्यपि ॥४०६॥ घृत' हविष्यमान्यं च, हविराधारसर्पिषी। बोगोदोहोद्भवं हैयङ्गवीन' शरज पुनः . ॥४०७|| दधिसारं तकसारं, नवनीत नवोद्धृतम् ।। दण्डाहेते कालशेयघोलौरिष्टानि गोरसः ॥४०॥ रसायनमथार्धाम्बूदश्चित् श्वेतं समोदकम् । तकं पुनः पादजलं, मथितं वारिवर्जितम् ॥४०९॥ सार्पिक दाधिक सर्पिर्दधिभ्यां संस्कृतं क्रमात् । लवणोदकाभ्यां तु दकलावणिकमुदश्चिति ॥४१०॥ औदश्वितमौदश्चित्कं, लवणे स्यात्त लावणम् । पैठरोख्ये उखासिद्धे, प्रयस्तं तु सुसंस्कृतम् ॥४११॥ पक्के राद्धं च सिद्धं च, भृष्टं पक्वं विनाम्बुना ।। भृष्टामिषं भटित्रं स्याभूति रूटकं च तत् ॥४१२॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org