________________
अभिधान चिन्तामणौ देवकाण्डः २ ३७ षडङ्गी वेदाश्चत्वारो, मीमांसाऽन्वीक्षिकी तथा । धर्मशास्त्रं पुराणं च, विद्या एताश्चतुर्दश ॥२५॥ सूत्रं सूचनकृद्भाष्यं सूत्रोक्तार्थप्रपञ्चकम् । प्रस्तावस्तु प्रकरणं, निरुक्तं पदभञ्जनमे ॥२५४॥ अवान्तरप्रकरणविश्रामे शीघ्रपाठतः । . आह्निकमधिकरणन्त्वेकन्यायोपपादनम् ॥२५॥ उक्तानुक्तदुरुक्तार्थचिन्ताकारि तु वार्तिकम् । टीको निरन्तरव्याख्या, पञ्जिको पदभञ्जिका ॥२५६॥ निबन्धवृत्ती अन्वर्थे, संग्रहस्त समाहेतिः । परिशिष्टंपद्धत्यादीन, पथाऽनेन समुन्नयेत् ॥२७॥ कारिको तु स्वल्पवृत्तौ, बहोरर्थस्य सूचनी। कलिन्दिको सर्वविद्या, निघण्टुर्नामसङ्ग्रहः ॥२५८॥ इतिहासः पुरावृत्त, प्रवलिको प्रहेलिको। जनश्रुतिः किंवदन्ती, वाततिा पुरातनी ॥२५९॥
०१ अवान्तरप्रकरणानां विश्रामो ग्रन्थावयय इत्यर्थः । तदाइनकमित्युच्यते, यदनेकार्थः “आह्निकं स्यात्पुनरहनिर्वत्यै नित्यकर्मणि । भोजने ग्रन्थभागे चेति ” ग्रन्थभागे-ग्रन्थावयवे इति हट्टीका । ०२ आदिग्रहणात् अध्यायः उच्छ्रासः अङ्कः सर्गः इत्यादयो ग्रन्यावयव विशेषा ज्ञेयाः ।
Jain Education International For Private & Personal Use Only
www.jainelibrary.org