________________
३६ अभिधानचिन्तामणौ देवकाण्डः २ उपासकान्तकृदनुत्तरोपपातिकाद्दशाः। प्रश्नव्याकरणं चैव, विपाकश्रुतमेव च ॥२४४॥ इत्येकादश सोपाङ्गान्यङ्गानि द्वादशं पुनः ।। दृष्टिवादो द्वादशाङ्गी, स्याद्गणिपिटकाहुया ॥२४५।। परिकर्म- सूत्र-पूर्वानुयोग-पूर्वगत-चूलिकाः पञ्च । स्युदृष्टिवादभेदाः पूर्वाणि चतुर्दशापि पूर्वगते ॥२४६॥ उत्पादपूर्वमग्रायणीयमथ वीर्य्यतः प्रवौदं स्यात् । अस्तेीनोत्सत्यात्तदात्मनः कर्मणश्च परम् ॥२४७॥ प्रत्याख्यान विद्याप्रवाद-कल्याण-नामधेये च । प्राणवायं च क्रियाविशालमैथै लोकबिन्दुसौरमिति २४८ स्वाध्यायः श्रुतिराम्नायछन्दो वेदत्रयी' पुनः । ऋग्यजुःसामवेदा. स्युरथरू तु तदुद्धृतिः ॥२४९॥ वेदान्तः स्यादुपनिषदोङ्कारप्रणवौ समौ । शिक्षा कल्पो व्याकरण, छन्दो ज्योतिर्निरुक्तयः ॥२५॥ षडङ्गानि धर्मशास्त्रं, स्यात् स्मृति धर्मसंहितौ । आन्वीक्षिकी तर्कविद्या, मीमांसा तु विचारणा ॥२५॥ सर्गश्चै प्रतिसर्गश्चे, वंशो मन्वन्तराणि च । वंशानुवंशचेरितं, पुराणं पञ्चलक्षणम् ॥२५२॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org