________________
२८५
निघण्टुशेषः। शतपुष्पं दारपुर, बानेयं परिपेलवम् । जलमुक्ता मुस्तकाभ, शैवालदलसंभवम् ।। २२६८ पीरणे तु वीरतरं, कीरभद्रं समूलकम् । मूलेऽस्योशीरमभयं, समगन्धि रणप्रियम् ।। २२६९ लामजके बु नलदममृणालं लवं लघु । इष्टकापथकं शीघ्रं, दीर्घमूलं जलाशयम् ॥ २२७०
इत्याचार्यश्रीहेमचन्द्रविरचिते निघण्टुशेषे पञ्चमस्तृणकाण्डः। , अथ धान्ये सस्यं सीत्यं, व्रीहिः स्तम्बकरी अपि । .. आशौ स्यात्पाटलो व्रीहिर्गर्भपाकिनि षष्टिकः ॥ २२७१ शालौ तु कलमाद्याः स्युः, कलमे तु कलायकः । लोहिते रक्तशालिः स्यान्महाशालौ सुगन्धिकः ।। २२७२ यवे हयप्रियस्तायशूकस्तोक्यस्त्वसौ हरित् । माल्यके स्यान्मसूरः, कलाये तु सतीनकः ॥ २२.७३ हरेणुः खण्डिकश्चाथ, चणके हरिमन्थकः । माषे तु मदनो नन्दी, सरी बीजवरो बली ॥ २२७४ मुद्रे तु प्रधनो लोभ्यो, बलाटो हरितो हरिः । पीतेऽस्मिन् वसुखण्डीरः, प्रवेलजयशारदाः ॥ २२७५ कृष्णे प्रवरवासन्तहरिमन्थजशिम्बिकाः । वनमुद्रे तु वरका, निगूढककुलीनकाः ॥ २२७६ खण्डिको राजमुद्रे तु, मकुष्टकमयुष्टको ।
Jain Education International For Private & Personal Use Only
www.jainelibrary.org