________________
२८६
निघण्टुशेषः ।
गोधूमे सुमनो वल्ले, निष्पावः शितिबिम्बिकः ॥ २२७७ कुलत्थे तु कालवृन्तस्ताम्रवृन्ते कुलत्थिका ।
आढक्यां तुवरी वर्णा, स्यात्कुल्माषे तु यावकः ॥ २२७८ नीवारस्तु वनत्रीहिः, श्यामाके श्यामकः समौ । कौ तु कडुनी कडुः, प्रियङ्गौ पीततन्दुला ॥ २२७९ सा कृष्णा मधुका रक्ता, शोधिता मुशटी शिता । पीता माधव्यथो दोला, कोद्रवः कोरदूषकः ॥ २२८० चीनकेतु काककङ्कुर्यवनाले तु योनलः । जूर्णाय देवधान्यं, जोर्णाला बीजपुष्पिका ॥ २२८१ शणे भङ्गा मातुलानी, स्यादुमा तु क्षमाsतसी । गवेधुकायां गवेधुर्वन्यतिले तु जर्तिलः ॥ षण्ढतिले तिलपिंजस्तिलपेजोऽथ सर्षपे । कदम्बकस्तुतुंभोऽथ, सिद्धार्थः श्वेतसर्षपः ॥ माषादयः शमीधान्यं, शूकधान्यं यवादयः । स्यात्सस्यशूके किंसारु, कणिशं सस्यशीर्षकम् ॥ स्तम्बे तु गुच्छो धान्यादेर्नालः काण्डोsफले त्विह । पलालो धान्यत्वपलः, तुषे बुसे कडङ्गरः ॥
२२८४
२२८२
२२८३
२२८५
इत्याचार्य श्री हेमचन्द्रविरचिते निघण्टुशेषे षष्ठो धान्यकाण्डः । इति श्रीहेमचन्द्राचार्यविरचितो निघण्टुशेषः समाप्तः ।
Jain Education International For Private & Personal Use Only www.jainelibrary.org