________________
EN
निघण्टु रोषः। वायसेक्षुः पोटगला, कासेक्षुः कोकिल क्षामः ॥ २ उत्पू वल्वजो बालकेशी हटलतापिः च.। इक्ष रसालो गण्डीरी, गण्डकी क्षुद्रपत्रकः ॥ २२५८ तस्यैकादश मेदाः स्युः, पुण्डकान्तारकादयः । नले नडः शून्यमध्यो, गमनो नर्तको नटः ॥ २२५९ अरण्यनलको रन्ध्री, पोटगलो विभीषणः। नलिनु मनलिका, नाकुली लेखकाञ्चिताः॥ २२६० शरे. तु मुञ्जो बाणाल्या, स्थूलदर्भः पितामहः । गुञ्जस्तजनको भद्रमुञ्जो याजनकक्षुरः॥ २२.६.१ मुलस्तु यजिको मध्ये, दृढत्वरब्रह्ममेखलः । अथ बालतृणे शष्पं, शुकं शालिकमङ्गलम् ।। २२.६२ तृणं स्यादर्जुनं घासे, यवसं चारि इत्यपि । दीयां तु शतपर्वा, भार्गवी विजया जया ॥ २२६३ मङ्गल्या स्यादलाऽनन्ता, मरी प्रतानिका रुहा । सहसवीर्या श्यामाजी, हरिता हरिताल्यपि.॥ २२६४ श्वेशदूर्वा तु गोलोमी; शतवीर्या शता लता। गण्डदूवायां मुण्डाली वारुणी शकुलाक्षकर । २२६५५ मुखायां भद्रको भद्रमुस्ता राजकशेरुकः ।। गुन्द्री वरोहो गानेया, कुरुविन्दोऽम्बुदायः ॥ २२६६ कुट नढे तु कैवर्ती, मुस्तक जीवनाहयम् । काण्डीरकं जीवबुनं, गोनद गोपुरप्लवम् ॥ २२६७,
Jain Education International For Private & Personal Use Only
www.jainelibrary.org