________________
२८२
निघण्टुशेषः। गण्डीरको रक्तकाण्डो, विषहार्यल्पमारिषः ॥ २२३७ समण्ठो तु तोयवृत्तिर्गण्डीरस्तोयमञ्जरी । समष्ठीला शोषहरी, जलापा मार्गतूलकः ॥ २२३८ अन्यः सुस्थलगण्डीरः, कर्बरष्टक्कदेशजः।। काकमाच्यां काकमाची, काकसाह्वा वृषायणी ॥ २२३९ श्रीहस्तिन्यां तु भूरुण्डी, कुरुण्डी काश्मरीरिपुः । सुनिषण्णे सुचिपत्रः, स्वस्तिकः शिरिवारकः ॥ २२४० श्रीवारकः शितिवरो, वितुन्नः कुक्कुटः शितिः । मूलके तु महाकन्दो, रुचिष्यो हस्तिदन्तकः ॥ २२४१ वुस्तिका नीलकण्ठश्च, सेकिमो हरिपर्णकः । चाणाक्यमूलके शालमर्कटो मरुसंभवः ।। २२४२ विष्णुगुप्तमतो मिश्रः, स्थालयो मर्कटोऽपि च । हिलमोच्यां शङ्खधरा, जलब्राझी च मोचिका ॥ २२४३ कलम्ब्यां तु शतपूर्वा, केलम्बूर्यायसी च सा । कारवेल्लयां तु सुषवी, कटिल्ला मृदुपर्णका ॥ २२४४ पटोले तु पाण्डुफलः, कुलकः कर्कशच्छदः। राजीफलः कफहरो, राजिमानमृताफलः ॥ २२४५ कङ्कोटे तु किलासघ्नस्तिक्तपर्वः सुगन्धकः ।। कूष्माण्डके तुकारुः, कलिङ्गयां बहुपुत्रिका | २२४६ तुम्ब्यां पिण्डफलेक्ष्वाकुस्तिक्तबीजा महाफला । अलाबूः क्षत्रियवरा, कटुका लाबुनी च सा ॥ २२४७
Jain Education International For Private & Personal Use Only
www.jainelibrary.org