________________
२० अभिधानचिन्तामणौ देवकाण्डः २ प्रथमेऽरत्रये मास्त्रियेकपल्यजीविताः । त्रिव्येकगव्यूतोच्छ्रायास्त्रियेकदिनभोजनाः । ॥१३२॥ कल्पद्रुफलसन्तुष्टाश्चतुर्थे त्वरके नराः । पूर्वकोट्यायुपः पञ्चधनुःशतसमुच्छ्याः ।।१३३॥ पञ्चमे तु वर्षशतायुपः सप्तकरोच्छ्याः । षष्ठे पुनः पोडशाब्दायुषो हस्तसमुच्छ्याः ॥१३४॥ एकान्तदुःखप्रचिता, उत्सपिण्यामपीदृशाः । पञ्चानुपूर्व्या विज्ञेया, अरेषु किल षट्स्वपि ॥१३॥ अष्टादश निमेषाः स्युः, काष्ठी काष्ठाद्वयं लवैः । कला तैः पञ्चदशभिर्लेशस्तद्वितयेन च ॥१३६॥ क्षणस्तः पञ्चदशभिः, क्षणैः षभिश्च नाडिको ।। सा धारिका च घटिका, मुहूत्र्तस्तद्वयेन च ॥१३४॥ त्रिंशता तैरहोरात्रैस्तत्रादिवसो दिन । दिवे धुर्वासरो घस्रः, प्रभातं स्यादहर्मुखम् ॥१३८॥ व्युष्टं विर्भातं प्रत्यूषं, कल्यप्रत्युषसी उषः । काल्यं मध्याह्नस्तु दिवामध्यं मध्यन्दैिनं च सः॥१३९॥ दिनावसानमुत्सूरो, विकॉलसर्वली अपि । सायं सन्ध्या तु पितृसूस्त्रिसन्ध्यं तूपवैणवम् ॥१४०॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org