________________
अभिधानचिन्तामणौ देवकाण्डः २ २१ श्राद्धकालस्तु कुंतपोऽष्टमो भागो दिनस्य यः । निशा निशीथिनी' रात्रिः, शर्वरी क्षणदो क्षपा ॥१४१॥ त्रियामाँ यामिनी भौती, तमी तमा विभावरी । रजनी वसती श्यामी, वासतेयी तमस्विनी ॥१४२॥ उषां दोषेन्दुकान्तोऽथ ,तमिस्रा दर्शयोमिनी । ज्योत्स्नी तु पूर्णिमारात्रिर्गणरांत्रो निशागणः ॥१४३॥ पक्षिणी पक्षतुल्याभ्यामहोभ्यां वेष्टिता निशा । गर्भकं रजनीद्वन्द्वं, प्रदोषो यामिनीमुखम् ॥१४४॥ यामः प्रहरो निशीथस्त्वर्धरात्रो महानिशौ । उच्चन्द्रस्त्वपररात्रस्तमिसं तिमिरं तमः ॥१४॥ ध्वान्तं भूच्छायाऽन्धकार, तमसं सम-वा-न्धतः । तुल्यनक्तन्दिने काले, विषुवेद्विषुवं च तत् ॥१४६॥ पञ्चदशाहोरात्रः स्यात्पक्षः स बहुलोऽसितः। तिथिः' पुनः कर्मवोटी, प्रतिपत्पक्षतिः' समे ॥१४७॥
१ दिवसस्य योऽष्टमो भागः स श्राद्धकालः कुतपश्च उच्यते इत्यर्थः । दिवसस्य पुराणोक्तानि रौद्रादीनि भगान्तानि पन्चदश मुहूर्तानि, तन्मध्ये गणनाक्रमेण योऽटमो मुहूर्तः स कुतुप उच्यते । तत्प्रयोजनं च श्राद्धे, अन्यकर्मणि अष्टमो मुहूर्तः अभिजिदाख्य यए।
Jain Education International For Private & Personal Use Only
www.jainelibrary.org