________________
निघण्टुशेषः। सौगन्धिके तु कल्हारं, बीजकोशे बराटकः ॥ २२१७ पनमाले तु मृणालं (बिसिनी) तन्तुलं बिसम् । किञ्जल्के केसरं नव्यदले संवर्तिका भवेत् ।। २२१८ यद्मकन्दे करहाटशिफे शालूकमौत्पले । पद्मवीजे तु पद्माक्षं, पद्मकर्कटिकेत्यपि ॥ २२१२ वारिपा तु पानीयवृष्टगा कुम्भिका हठः। जलशूके जलनीली, तथा शैवालशैवले ॥ २२२० इत्माचार्यश्रीहेमचन्द्रविरचिते निघण्टुशेषे तृतीयो लताकाण्डः।
शतपुष्पायां तु घोषा, शताहा माधवी मिषिः । अतिच्छत्रा छत्रपुष्पाऽर्वाक्पुष्पा कारवी सहा ॥ २२२१ जीरके तु कणाजाजी, जरणः कणजीरकः । कृष्णेऽस्मिन् कारबी पृथ्वी, सुगन्धा तुषवी पृथुः ।। २२२२ उपकुची कुञ्चिका च, कालोपकुञ्चिकापि च । रसोने लशुनो म्लेच्छकन्दोऽरिष्ठो महौषधम् ॥ २२२१ महाकन्दोऽपदोऽप्येष, गृञ्जनो दीर्घपत्रकः । पलाण्डौ यवनेष्टः स्यात्सुकन्दो वक्रभूषणः॥ २३ करणः स तु हरितो, लतार्को दुनुमोऽपि च । सप्तलायां बहुफेना, सातला बिन्दुलाऽमली ॥ २२२५ सारी मरालिका दीप्ता, फेना च मकसा यवा। प्रसारण्यां चारुपी, मद्रपर्णी प्रतानिका । . २२२६
Jain Education International For Private & Personal Use Only
www.jainelibrary.org