________________
निघण्टुशेषः।
२७३ बलायां शीतपाकी स्याद्भवोदन्योदनाया । वाट्यालकस्तथा वाट्यपुष्पिका पीतपुष्पिका ॥ २१४७ देवसहा सहदेवाऽतिबला बाह्यपुष्पिका । ऋष्या प्रोक्ता ऋष्यगन्धा, ककता वर्षपुष्पिका ॥ २१४८ वाट्यायिनी भूरिबला, तिष्या वीर्या बृहर्ला । महागन्धा गन्धबली, मङ्गल्याऽर्थप्रसाधनी ॥ २१४९ मुसल्यां तु तालमूली, दुर्नामारिर्म(श ?)त्विषा । वृष्यकन्दा तालपर्णी, सुमूला बलदा शिवा ॥ २१५० हिङ्गो जतुकवाल्हीकगूढगन्धानि रामठम् । सहस्रवेधि भूतघ्नं, जरणं सूपधूपनम् ॥ २१५१ हिङ्गुपत्र्यां पृथुः पृथ्वी, दीर्घिका चारिपत्रिका । जातूका रामठी वंशपत्रा पिण्डा शिवाटिका ॥ २१५२ कारवी करवी तन्वी, बाष्पिका बिल्वकेत्यपि । काकजङ्घायां तु दासी, लोमहीना प्रभाबलः ॥ २१५३ नदीकान्तो नद्यास्या च, पारावतपदीत्यपि ।.. काकनासायां सुरङ्गा, वायसी वायसाङ्गिका ॥ २१५४ वारुणी तस्करस्नायुः, काकतुण्डफला च सा । . . पाषाणभेदे नगभिच्छिलाभिच्चित्रपर्णकः ॥ २१५५ हमुषायां विस्रगन्धा, वपुषा मत्स्यगन्धिनी । साऽन्याऽश्वत्थफला ध्वायनामिका कच्छुनाशिनी ॥२१५६
Jain Education International For Private & Personal Use Only
www.jainelibrary.org