________________
२७४
निघण्टुशेषः। घण्टारवायां स्यान्मल्यपुष्पिका श(र)घण्टिका । अल्पघण्टा बृहत्पुष्पी, शणपुष्पी महाशणः ॥ २१५७ शणे तु किंकिणी जाली, जन्तुनन्तुर्महाशणः । शीघ्रप्ररोही बलवान् सुपुष्पः क्षेत्रमण्डनः ॥ २१५८ कुसुम्भेऽमिशिखं महारञ्जनं कमलोत्तरम् । शालपण्या दीर्घमूला, त्रिपर्णी पीतिनी ध्रुवा ॥ २१५९ विदारि गन्धातिगुहा, स्थिरा भौमांशुमत्यपि । भाया वर्वरकः पद्मा, वन्दकोऽङ्गारवल्लिका ॥ २१६० गर्दभशाकब्राह्मण्यो, हञ्जी ब्राह्मणयष्टिका । आवर्तक्यां चर्मरङ्गा, विभाण्डी पिच्छिका लता॥ २१६१ रक्तपुष्पा बिंदुकिनी, स्यान्महाजालिनी च सा । नाकुल्यां स्यात् पक्षिपीडा, वेत्रमूला विसर्पिणी ॥२१६२ शङ्खनी वृद्धपादा च, यवतिक्तायसीश्वराः । तेजखिन्यां पारिजाता, पीताऽश्वप्ना महौजसी ॥ २१६३ तेजोवती तेजिनी च, तेजोबा वल्कलेत्यपि । पथिकायां तु तुलसी, तालपत्री लवङ्गकम् ॥ २१६४ कन्दपत्रं त्वचं पत्रा, मलपत्रकमुत्तरा।। मांस्यां यशी कृष्णजटा, नलदा जटिला जटा ॥ २१६५ तपखिन्यामिषी हिंस्रा, क्रव्यादी पिशिता च सा । गन्धमांस्यां पुनः केशी, भूतकेशी पिशाचिका ।। २१६६
Jain Education International For Private & Personal Use Only
www.jainelibrary.org