________________
२७२
निघण्टुशेषः ।
२१३८
नील्यां श्रीफलका काला, दोला मेला विशोधनी । तूणी तुच्छा भारवाही, रञ्जनी मधुपर्णिका ॥ २१३७ द्रोणी क्लीकिका ग्राम्या, नीलकेशी महारसा 1. दमने स्याद्राजटा, मुनिर्दानर्षिपुत्रकौ ॥ गन्धोत्कटः पुण्डरीकः, पाण्डुरागस्तपस्व्यपि । धतूरे धूर्तधत्तूरौ, कितवो देवता शठः ॥ घण्टापुष्पस्तलफलो, मातुलः कनकाह्वयः । उन्मत्तो मदनश्चास्य, फलं मातुलपत्रकम् ॥ शङ्खपुष्प्यां क्षीरपुष्पी, शिवब्रह्मकिरीटिनी । मधुपुष्पी मधुगन्धा, शङ्खाह्वा शङ्खमालिनी || २१४१ धूसरच्छदना श्वेतपुष्पी वनविलासिनी । कर्चूरे द्रविडः काल्यो, वेधान्यो गन्धमूलकः ॥ २१४२ मोचामस्त्वजमोदायां, मयूरो लोचमस्तकः । खराश्वा कारवी वस्तगन्धा हस्तिमयूरकः ॥ दीप्यो वल्ली ब्रह्मदर्भा, लोचमर्कट इत्यपि । यवान्यां स्यादुग्रगन्धा, यमनी यवसाह्वयः । सहदेव्यां तथा दण्डोत्पला गोचन्दना वसा । गन्धवर्णा सितैः पुष्पैर्विश्वदेवा तु सारुणैः ॥
२१४३
२१४५
पर्पटके वरतिक्तो, रजः कवचनामकः । गोजिकायां शृङ्गबेरी, दार्विका भूमिकालिका ॥ २१४६
२१३९
२१४०
२१४४
Jain Education International For Private & Personal Use Only www.jainelibrary.org