________________
निघण्टुशेषः।
२७१ अट्टहासो भृङ्गमित्रं, शाल्योदनो यमश्वसः । स्यान्नवमालिकायां तु, मोमाली नवमालिनी ॥ २१२७ सत्सला मुकुरारातिः, सुरभिः शिशुगन्धिका । कान्ता विभावरी ग्रीष्मा, प्रैष्मिका शिखरिण्यपि॥ २१२८ मल्लिकायां शीतभीरुर्मदयन्ती प्रमोदनी । अष्टापदी तृणशूल्यं, गवाक्षा भूपदीत्यपि ॥ २१२९ वार्षिक्यां षट्पदानन्दी, श्रीमती सुभगा प्रिया। सुवर्षा त्रिपुटा व्यस्रसुरूपा मुक्तबन्धनात् ॥ २१३० कुमा- तु वर्णिचारुकेसरा भृङ्गसंमता । तरणी रामतराणिगेन्धाढ्या कन्यका सहा ॥ २१३१ अमिलाने स्यादम्लानौ........ महासहा। रक्तपुष्पः कुरुबकः, पीतपुष्पः कुरण्टकः ॥ २१३२ सैरेयके सहचरो, झिण्टी महावरश्च सः।। स तु रक्तः कुरबकः, स्यात्पीतस्तु कुरण्टकः ॥ २१३३ नील आर्तगलो दिसी, बाण ओदनपाक्यपि । किंकिराते किंकिराटः, पीतभद्रः प्रलोभ्यपि ॥ २१३४ चित्रके वल्लरीव्यालः, पाठीनो दारुणः कुटः । ज्योतिष्को जरणोऽम्याख्यो, बलिनद्धिपिपाठिनः॥२१३५ वासन्त्यां स्यात्प्रहसन्ती, सुवसन्ता वसन्तजा । सेव्यालिबान्धवा शीतसंवासा सीतला वसा ॥ २१३६
Jain Education International For Private & Personal Use Only
Www.jainelibrary.org