________________
निघण्टुशेषः । अक्षोटः कर्परालश्च, फलस्नेहो गुहाशयः । पारावते तु साराम्लो, रक्तमालः परावतः ॥ आरेवतः सारफलो, महापारावतो महान् । कपोताण्डतुल्यफलो, रुद्राक्षे तु महामुनिः ॥ स तु चतुर्मुखो ब्रह्मा, द्विमुखस्तु वरार्गलः । षण्मुखस्तु कार्तिकेयः, पञ्चमुखस्तु शंकरः ॥ माधवस्त्वेकवदनो, विजयाशस्त्रधारणः । पुत्रजीवे त्वक्षफलः, कुमारजीवनामकः ॥ करने स्यान्नक्तमालः, पूतीकश्चिरबिल्वकः । करजः श्रीपदारिश्व, प्रकीर्णः कलिनाशनः ॥ भेदास्त्वस्य त्रयस्तत्र, षड्ग्रन्था हस्तिवारुणी । कर्मद्यां तु कृतमाल, उदकार्यः प्रकार्यकः ॥ अङ्गारवल्यां शार्ङ्गस्था, कासनी करतालिका । रोहीतके रोहितको, रोही दाडिमपुष्पकः ॥ रोहेडकः सदापुष्पो, रोचना प्लीहरक्तहा । कट्फले तु सोमवल्कः, कैडर्यो गोपभद्रिका ॥। २०३५ कुम्भी कुमुदिका भद्रा, श्रीपर्णी भद्रवत्यपि । दाडिमे कुट्टिम: कीरवल्लभः फलपाण्डवः ॥ करको दन्तबीजश्वा घोडपुष्पे जपा जवा । तक्यां तु धातुपुष्पा, बर्हिपुष्प्यभिपुष्पिका ॥। २०३७
.२६१
२०२८
२०२९
२०३०
२०३१
२०३२
२०३३
२०३४
२०३६
Jain Education International For Private & Personal Use Only www.jainelibrary.org