________________
२६२
निमग्दुशेषः। ताम्रपर्णी सुभिक्षा च, कुञ्जरा मद्यपावनी । सल्लक्यां वल्लकी हादा, सुवहा सुखवा रसा ॥ २०३८ अश्वमूर्तिः कुन्दरुकी, गजभक्ष्या महेरणा । गन्धवीरा गन्धकारी, सुरभिर्वनकर्णिका ॥ २०३९ एरण्डे तरुणश्चित्रो, दीर्घदण्डो व्यडम्बकः ।। पञ्चाङ्गुलो वर्द्धमान, आमण्डो रुवको रुवूः ।। २०४० व्याघ्रपुच्छो व्याघ्रतलश्चधुरुत्तानपत्रकः । गन्धर्वहस्तकश्वञ्चुरादण्डो हस्तिपर्णकः ॥ २०११ उरुबूको हस्तिकर्णः, शुक्लो रक्तश्च स द्विधा । । किम्पाके तु महाकालः, काकर्दः काकमर्दकः ॥ २०४२ कम्पिल्लके तु काम्पिल्लो, रक्ताङ्गो रक्तचूर्णकः । चन्द्राहयो रेचनकः, कर्कशाहः पटोदयः ॥ २०४३ केतकच्छदनीयोऽम्बुप्रसादनफलः कतः । कार्पास्यां तु समुद्रान्ता, बदरा तुण्डिकेर्यपि ॥ २०४४ सा तु वन्या भरद्वाजी, भद्रा चन्दनबीजिका । वन्दायां स्यात्तदरहो, शौखर्यपदरोहिणी ॥ २०४५ वृक्षादनी वृक्षरुजो, जयन्ती कामपादपः। स तु क्षीरवृक्षभवो, नन्दीवृक्षो जयनुमः॥ २०४६ आटरूषे वृषो वासा, वाशिका वाजिदन्तकः । भिषङ्माता सिंहमुखः, सिंहांका सिंहपर्णिका ॥ २०४७
Jain Education International For Private & Personal Use Only
www.jainelibrary.org