________________
२६० निघण्टुशेषः। अभ्रपुष्पः पत्रमाली, वाणीरो वञ्जलोऽपि च । स्थादम्बुवेतसे भीरु देयी बालभीरुकः ॥ २०१८ विदुलो मञ्जरीनम्रः, परिव्याधो निकुञ्जकः । वरुणे गन्धवृक्षः स्यात्तिक्तशाकः कुमारकः ॥ २०१९ श्वेतपुष्पः श्वेतफलस्तमालो मारुतापहः । साधुवृक्षः श्वेतवृक्षः, सेतुरश्मरिकारिपुः ॥ २०२० अकोटे स्यात्पीतसारो, दीर्घकीलो निकोचकः । अकोलकस्ताम्रफलो, रेचको गन्धपुष्पकः ॥ २०२१ भिल्लातके वीरतरुररुष्कोऽरुष्करो व्रणः । भौतिको भूतनुभृरिनेहः शोफकरो धनुः ॥ २०२२ अमिमुखी बहुपत्रो, भल्ली सूर्यामिसंज्ञकः । अरिष्ठे स्यात्कृष्णवर्णो, रक्तबीजोऽर्थसाधनः॥ २०२३ शुभनामा शीतफेनः, फेनिलो गर्भपातनः । निम्बे तु सर्वतोभद्रः, पारिभद्रः सुतिक्तकः ॥ २०२४ पिचुमन्दो यवनेष्टः, शुकेष्टः शुकमालकः ।। अरिष्ठो हिङ्गुनियोसो, वेता नियमनोऽपि च ॥ २०२५ महानिम्बे निम्बकरः, कार्मुको विषमुष्टिकः । रम्यकः क्षीबको वृक्षोऽक्षिपीलुः केशमुष्टिकः ॥ २०२६ पीली संसी सहस्राङ्गः, शीतः करभवल्लभः । गुल्मारिर्गुडफलश्वाथास्मिंस्तु गिरिसंभवे ॥ २०२७
Jain Education International For Private & Personal Use Only
www.jainelibrary.org