________________
२००८
निघण्टुशेषः । लकुचे लकुटो ग्रन्थिफलाम्बुपनसा मदुः । लघुत्वक् क्षुद्रपनसस्तनु स्यात्कुब्जकं फलम् ॥ आम्रे रसालो माकन्दः, कामाङ्गः पिकबान्धवः । वनपुष्पोऽशवश्वतः परपुष्टो मदोद्भवः ॥ मधुदूतो मधुफलः, सुफलो मदिरासखः । वसन्तपादपोऽसौ तु, सहकारोऽतिसौरभः ॥ क्षुद्राम्रे स्यात्कृमितरुर्लाक्षावृक्षो जतुद्रुमः । सुकोशको घनस्कन्धः, केशाम्बुश्च सुरक्तसः ॥ २०११ टको नीलकपित्थोऽन्यो, राजपुत्रो नृपात्मजः ।
२०१३
जम्ब्वां महाफला राजजम्बूनलाम्बुजच्छदा || २०१२ सुगन्धिपत्रा सान्या तु, काकजम्बूः कुजम्बुका । उशीरपत्रा नादेयी, वैदेशी काकवल्लभा ॥ मदने श्वसनो राठः, शल्यको विषनाशकः । करहाटो मरुबकः, पिण्डी पिण्डीतकः फलः ॥ २०१४ सूर्यपुत्रकर्कटको, विषगन्धो विषोदरः । मत्स्यान्तकफलो राजपुत्रकः कफवर्धनः || कुब्जके कामुकं श्यामसारः फुल्लो मिसिद्धमः । निचुले तु नदीकान्तोऽम्बुजो हिज्जुल इज्जलः ॥ २०१६ गन्धपुष्पो गुच्छफलोऽनुवाकः कच्छकोस्यपि । बेतसे विदुलः शीतो, नदीकूलप्रियो रथः ॥
२०१७
२५९
२००९
२०१०
२०१५
Jain Education International For Private & Personal Use Only www.jainelibrary.org