________________
निघण्टुशेषः। २५१ मङ्गल्यः केशवावासः, श्यामलो द्विरदाशनः। गर्दभाण्डे कन्दरालश्छायावृक्षः कमण्डलुः ॥ १९९८ प्लक्षो वटप्लवः शुश्री, सुपार्श्वश्चारुदर्शनः। . कपीतने कपीनः स्यात्पीतनप्लवकावपि ॥ १९२९ कर्पटोऽपर्कटी प्लक्षः, सतीदो लक्षणे नटी। वटे वैश्रवणावासो, न्यग्रोधो बहुपाद्धवः ॥ १९३० स्कन्धजन्मारक्तफलः, क्षीरी शुङ्गी वनस्पतिः। उदुम्बरे जन्तुफलो, यज्ञाङ्गो हेमदुग्धकः ॥ १९३१ सदाफलो वसुवृक्षः, श्वेतवल्को मशक्यपि । काकोदुम्बरिकायां तु, फाल्गुनी फल्गुवाटिका ॥ १९३२ फलराजी मलभारी, फलयूर्जघनेफला । राजादने तु राजन्या, क्षीरिका प्रियदर्शनः ॥ १९३३ कपिप्रियो दृढस्कन्धो, मधुराजफलो नृपः । मियाले तु राजवृक्षो, बहुवल्को धनुप्पुटः ॥ १९३४ सन्नकदुः खरस्कन्धश्चारस्तापसवल्लभः । आम्रातके वर्षपाकी, कपिचूतः कपिप्रियः॥ १९३५ कपीतनः पीतनकस्खनुक्षीरोऽअपाटकः । शृङ्गी कपिरसादयः खादुष्पकलो विभीषणः ॥ १९३६ अर्के विकीरणोऽक्राहो ज्यंभला स्फोतविच्छुरा । क्षीरापर्णो राजा, त्वलर्को गणरूपकः ॥ १९३७
Jain Education International For Private & Personal Use Only
www.jainelibrary.org