________________
३५०
निघण्टुशेषः ।
करवीरे कणवीरः, श्वेतपुष्पोऽश्वमारकः । प्रतिहासः शतप्राशोऽश्वारोहः कुमुदोद्भवः ॥ १९१८ रक्तपुष्पेऽत्र लगुडश्चण्डातश्चण्डगुल्मको ।
१९२१
१९२२
कालस्कन्धस्तमाले स्यात्तापिच्छो रजतो वसुः ॥ १९१९ तमालपत्रे वस्त्राख्यं, रोमशं तामसं दलम् । सूक्ष्मैलायां चन्द्रबाला, द्राविडी निष्कुटित्रुटि: ॥ १९१० कपोतवर्णिका तुच्छा, कोरजी बहुला तुला । स्थूलैलायां बृहदेला, पत्रैला त्वक्सुगन्धिका ॥ त्रिदिवोद्भवा पृथ्वीका, कर्णिका त्रिपुटा पुटा । कर्पूरे घनसारः स्याद्धिमाहो हिमवालुकः ॥ सिताभ्रः शीतलरजः, स्फटिकश्चन्द्रनामकः । कोलके कटुफलं, कोमलं मागधोत्थितम् ॥ १९२३ कोलं कोषफलं कोरं, मारीचं द्वीपमित्यपि । लवङ्गे शिखरं दिव्यं, भृङ्गारं वारिजं लवम् ॥ श्रीपुष्पं श्याह्वयं देवपुष्पं चन्दनपुष्पकम् । नलिकायां कपोताङ्गिर्निर्मध्या शुषिरा नदी || धमन्यञ्जनकेशी च शून्या विद्रुमवलयपि । अतिमुक्त मुण्डकः स्यात्पुण्ड्रको भ्रमरोत्सवः || १९२६ पराश्रयः सुवासन्ती, कामुको माधवी लता ।
पिप्पले बोधिरश्वत्थः, श्रीवृक्षश्चलपत्रकः ॥
१९२४
१९२५
१९२७
Jain Education International For Private & Personal Use Only www.jainelibrary.org