________________
२५२
निघण्टुशेषः। एकाष्ठीलः सदापुष्पो, मन्दारश्च प्रतापसः । बुट्यां वज्रो महावृक्षोऽसिपत्रः खक्सुधा गुडा ॥ १९३८ समन्तदुग्धा सीहुण्डा, शण्डेरी वक्रकण्टकः । करमर्दे करमन्दः, कराम्रकसुषेणकौ ॥ १९३९ स्थलपर्केट आविग्नः, कृष्णपाकफलोऽपि च । जम्बीरे जम्भलो जम्भो, जम्भीलो दन्तहर्षणः ॥ १९४० वक्रशोधी दन्तशठो, गम्भीरो रोचनोऽपि च । करुणे तु छागलाख्यो, मल्लिकाकुसुमः प्रियः॥ १९४१ बीजपूरे बीजपूर्णः, पूरकः फलपूरकः ।। सुपूरको मातुलुङ्गः, केसराम्लोऽम्लकेसरः ॥ १९४२ वराम्लो बीजको लुङ्गो, रुचको मध्यकेसरः ।। कृमिघ्नो गन्धकुसुमः, केसरी साधुपादपः ॥ १९४३ मातुलुङ्गी वर्धमाना, मधुरा मधुकुक्कुटी । मधुवल्ली पूतिपुष्पा, देवदूती महाबला ॥ १९४४ आम्लिकायां चुक्रिकाम्ला, शुक्तिकाम्ली विकाम्लिका । चुक्रा चिञ्चा तिन्तिडीका, तिन्तिला गुरुपुष्पिका ॥ १९४५ वृक्षाम्ले स्यादम्लवृक्षस्तिन्तिडीको महीरुहः । शाकाम्लमम्लशाकं चाम्लपूरो रक्तपूरकः ॥ १९४६ अथाम्लवेतसे भीमो, भेदनो रक्तपूरकः । रुधिरस्रावकश्चक्रं, मांसारिर्वानिकप्रियः ॥ १९४७
Jain Education International For Private & Personal Use Only
www.jainelibrary.org