________________
૨e
शेषनाममालायाम्। हंसेषु तु मरालाः स्युः, सारसे दीर्घनानुकः । मोनैर्दो मैथुनी कामी, श्येनाक्षो रक्तमस्तकः ॥१०३६॥ गृधे तु पुरुषव्याघ्रः, कामायुः कूणितेक्षणः । सुदर्शनः शकुन्याजौ, शुके तु प्रियदर्शकः ॥१७३७॥ श्रीमान् मेधातिथिर्वाग्मी, मत्स्ये तु जलपिप्पैकः । मूको जलाशयः शेः, सहस्रदंष्ट्रस्त्वेतनः ॥१७३८॥ जलवालो वदालोऽथ, पाठीने मृदुपाठकः । इति शेषसंग्रहनाममालायां चतुर्थकांडः ॥ अथ रत्नप्रभा धर्मा, वेशा तु शर्कराप्रमा ॥१७३९॥ स्याद्वालुकाप्रभा शैली, भवेत्पंकप्रभाजना। . धूमप्रमा पुना रिष्टा, माधव्या तु तमःप्रमा ॥१७४०॥ महातमप्रमा माधव्येवं नरकभूमयः । इति नारककांडः पंचमः ॥५॥ भानुकूल्यार्थकं प्राध्वंमसाकल्ये तु चिच्चन ॥१७४१॥ तु हि च स्म ह वै पादपूरणे पूजने स्वती । वद् वा यथा तथैववं, साम्येऽहो ही च विस्मये॥१७४२॥ स्युरेवं तु पुनवेत्यवधारणवाचकाः । ऊं पृच्छायामतीते प्राक्, निश्चयेऽद्धांजसा द्वयम् ॥१७४३॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org