________________
१८६ अभिधानचितामणौ तिर्यकाण्डः मधुरस्तु रसन्येष्ठो', गुल्यैः स्वार्दुधूलकैः । अम्लस्तु पाचनो' दन्तौठोऽथ लवणः सरः ॥१३८८॥ सर्वरतोऽथ कटु स्यादोषणो मुखशोधनः । वक्रभेदी तु तिक्तोऽथ, कषायस्तुवरो रसौः ॥१३८९॥ गन्यो' जनमनोहारी, सुरभिर्घाणतर्पणः । समावर्षी निहारी च, स आमोदो विदुरगः ॥१३९०॥ विमर्दोत्थः परिमलोऽथामोदी' मुखवासनः । इष्टगन्धैः सुगन्धिय, दुर्गन्धैः पूतिगन्धिकः ॥१३९१॥ आमगन्धि तु विस्त्रं स्याद्वर्णाः श्वेतादिका अमी । श्वे: श्येतः सितैः शुक्लो, हरिणो विश६ः शुचिः १३९२ अवदातगोरेशुभ्रवलक्षधवलार्जुनौ ।। पाण्डुः पाण्डे पाण्डुरीषत्पाण्डुस्तु धूमः ॥१३९३॥ कापोतस्तु कपोतामः, पीतस्तु सितरञ्जनैः ।। हान्द्रिः पीतलो गौरः, पीतनीले: पुनहरित ।।१३९४॥ पालाशो हरितस्तालकाभों रक्तस्तु रोहितः । माञ्जिष्ठो लोहितः शोण:, श्वेतरक्तस्तु पाटलः॥१३९५॥ अरुणो' बालसन्ध्यामः, पीतरक्तस्तु पिञ्जरैः । कपिल: पिङ्गल: श्याः, पिशङ्गः कपिशो हरिः १३९६
-
३
Jain Education International For Private & Personal Use Only
www.jainelibrary.org