________________
१० अभिधानचिन्तामणौ देवाधिदेवकाण्डः , संस्कारवत्त्वमौदात्त्यमुपचारपरीततौ । मेघगम्भीरघोषत्वं, प्रतिनादविधायितौ ॥६५॥ दक्षिणत्वमुपनीतरागत्वञ्च महार्यती । अव्याहतत्वं शिष्टत्वं, संशयानामसंभवः निराकृतान्योत्तरत्वं, हृदयङ्गमतापि च । मिथः साकाङ्क्षती प्रस्तावौचित्यं तत्त्वनिष्ठता ॥६॥ अप्रकीर्णप्रसृतत्वमस्व श्लाघान्यनिन्दिता । आभिजात्यमंतिस्निग्धर्मधुरत्वं प्रशस्यता ॥६॥
०१ संस्कृतादिलक्षणवत्त्वं । ०२ उत्तिता । ०३ उपचाररहितत्वं । ०४ मेघस्येव गम्भीरशव्दत्वं । ०५ प्रतिध्वनियुक्तत्वं । ०६ सरलत्वं । ०७ नालधकौशिक्यादिग्रामरागयुक्तत्व एते शब्दाश्रया वाग्गुणा शेयाः, अन्ये अर्थाश्रया वाग्गुणाः । ०८ बृदहभिवेयता । ०९ पूर्वापरवाक्यार्थाविरोधित्वादव्याहतत्वं । ०१० अभिमतसिद्धौ वक्तुमनोज्ञार्थप्रयोजकत्वं शिष्टतासूचकत्वं वा। ०११ असंदिग्धता । ०१२ परदूषणाविषयता । ०१३ हृदयग्राह्यत्वं । ०१४ परस्परेण पदानां वाक्यानां वा सापेक्षत्वं । ०१५ देशकालाद्यव्यतीतत्वं । ०१६ विवक्षितवस्तुस्वरूपानुसारिता । ०१७ सुसम्बन्धस्य सतः प्रसरणं । ०१८ स्वश्लाघाआत्मोत्कर्षः परनिन्दा च तयोर्विप्रयुक्तत्वं । ०१९ बन्यस्य प्रतिपाद्यस्य वा भूमिकानुसारित्वं । ०२० घृतगुडादिवत् सुखकारित्वं । ००१ प्राप्तश्लाघ्यता ।
Jain Education International For Private & Personal Use Only
www.jainelibrary.org