________________
१७६ अभिधानचिंतामणौ तिर्यकार: चक्रमण्डल्यजगरः, पारीन्द्रो वाहसः शयुः । अलगः जलव्याले:, समौ राजिलदुन्दुमौ ॥१३०५॥ भवेत्तिलि सो गोनासो', गोनसो घोणसोऽपि च । कुक्कुटाहि': कुक्कुटामो, वर्णेन च रवेण च ॥१३०६॥ नागौः पुनः कावेयास्तेषां मोगावती पुरी । शेषो नागाधिपोऽनन्तो, द्विसहस्रारूँ आलुकः ॥१३०७॥ स च श्यामोऽथवा शुक्लः, सितपङ्कजलाञ्छनः । वासुकिस्तु सर्पराजः, श्वेतो नीलसरोजवान् ॥१३०८॥ तक्षकस्तु लोहिताङ्गः, स्वस्तिकाङ्कितमस्तकः । महापौस्त्वतिशुक्लो, दशबिन्दुकमस्तकः । ॥१३०९॥ शङ्खस्तु पीतो बिभ्राणो, रेखामिन्दुसितां गले । कुलिकोऽर्धचन्द्रमौलिज्वालाधूमसमप्रमः ॥११॥ अथ कम्बलाश्वतरधृतराष्ट्रबलाहकाः । इत्यादयोऽपरे नागास्तत्तत्कुलसमुद्भवाः ॥१३११॥ निर्मुक्तो" मुक्तनिर्मोकः, सविषा निर्विषाश्च ते । नागाः स्युर्दग्विषो लुमविषास्तु वृश्चिकादयः ॥१३१२॥ व्याघ्रादयो लोमविषो, नखविषो नरादयः । लालाविषास्तु लूताद्याः, कालान्तरविषोः पुनः ॥१३१३॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org