________________
अभिधानचिंतामणौ तिर्यकाण्डः १६१ षण्ढतिले तिलपिञ्जस्तिलपेजोऽय सर्षपः । कदम्बकैस्तन्तुमोऽथ, सिद्धार्थः श्वेतसर्षपः ॥११८०॥ माषादयः शमीधान्यं', शूकधान्य' यवादयः । स्यात्सस्यशूकं किंशाः, कैणिशं सस्यशीर्षकम् ॥११८१॥ स्तम्बस्तु गुच्छो धान्यादे लं' काण्डोऽफलस्तु सः। पल पलालो धान्यत्वक, तुषो बुसे कडङ्गरः ॥११८२॥ धान्यमावसित रिद्धं, तत्पूतं निर्बुसीकृतम् । मूलपत्रेकरीरोग्रॅफलकाण्डाँऽविरूढकाः ॥११८३॥ स्व पुष्पं कक शाक, दशधा शिग्रुकैञ्च तत् । तण्डुलीयस्तण्डुलेरो, मेघनादोऽल्पमारिषः ॥११८४॥ बिम्बी रक्तफलों पीलुपी स्यात्तुण्डकेरिका । जीवन्ती' जीवनी' जीवा, जीवनीयाँ मधुत्रवो ॥११८५॥ वास्तुकं तु क्षारपत्रं, पालक्यो मधुसूदैनी। रसोनो लशुनोऽरिष्टो, म्लेच्छकन्दो महौषधम् ॥११८६॥ महीकन्दो सोनोऽन्यो, गृञ्जनो दीर्घपत्रकः । भृजरामो भृरजो, मार्कवैः केशरञ्जनः ॥११८७॥ काकमाची' वायसी" स्यात्, कारवेल्डः कटिल्लकः । कूष्माण्डकस्तु कारः, कोशातकी' पटोलिको ॥११८८॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org