________________
अभिधानचिन्तामणौ देवाधिदेवकाण्डः १ ५ धर्मः शान्तिः कुन्धुररो, मलिश्च मुनिसुव्रतः। नमिर्नेमिः पार्थो वीरश्चतुर्विंशतिरर्हताम् ॥२८॥ ऋषभो वृषभः श्रेयान् श्रेयांसः स्यादनन्तजिदनन्तैः । सुविधिस्तु पुष्पदन्तो मुनिसुव्रतसुत्रतौ तुल्यौ ॥२९॥ अरिष्ठनेमिस्तु नेमिवीरश्रमतीर्थकृत् ।। महावीरो वर्द्धमांनो, देवार्यो ज्ञातनन्दनः ॥३०॥ गणा नवाऽस्यर्षिसङ्घा, एकादश गणाधिपाः । इन्द्रभूतिरग्नि तिर्वायु तिश्च गौतमाः ॥३१॥ व्यक्तः सुधर्मा मण्डितमौर्यपुत्राँवकम्पितः । अचलभ्राता मेतार्यः, प्रभासश्च पृथक्कुलाः ॥३२॥ केवली चरमो जम्बूस्वाम्यऽथ प्रभवः प्रभुः । शय्यम्भवो यशोभद्रैः, सम्भूतविजयस्ततः ॥३३॥ भद्रबाहुँः स्थूलभद्रः, श्रुतकेवलिनो हि षट् । महागिरिसुहस्त्यांद्या, वज्रान्तौ दशपूर्विणः ॥३४॥ इक्ष्वाकुकुलसम्भूता, स्याद् द्वाविंशतिरर्हताम् । मुनिसुव्रतनेमी तु, हरिवंशसमुद्भवौ
॥३५॥ नाभिश्च नितशत्रुश्च, जितारिरथ संवरैः। .. मेघो धरः प्रतिष्ठश्चै, महासे नरेश्वरः
Jain Education International For Private & Personal Use Only
www.jainelibrary.org