________________
९६ अभिधान चिन्तामणौ मयंकाण्डः ३ स्वाम्यमात्यैः सुहृत् कोशो', रोष्ट्रर्दुर्गबलानि च । राज्याङ्गानि प्रकृतयः, पौराणां श्रेणयोऽपि च ॥७१४॥ तन्त्रं' स्वराष्ट्रचिन्ता स्यादावापस्त्वरिचिन्तनम् । परिस्यन्दः परिकरैः, परिवारः परिग्रहः ॥७१५।। परिच्छदैः परिवहस्तन्त्रोकरणे अपि । राजशय्यो महाशय्यो, भद्रासन' नृपाप्सनम ॥७१६॥ सिंहासनं तु तद्धम, छत्रैमातपवारणम् । चामरं वालव्यजेनं, रोमगुच्छेः प्रकीर्णकरें ॥१७॥ स्थगो ताम्बूलकरको, भृङ्गारः कनक लुका। भद्रकुम्भः पूर्णकुम्भः, पादपीठ' पदासन ॥७१८॥ अमात्यः सचिवो मन्त्री, धीसख: सामवायिकः । नियोगी' कर्मसचिवे, आयुक्तो व्यापृतश्चँ सः ॥७१९॥ दृष्टा तु व्यवहाराणां, प्राडविवाकोऽक्षदर्शकः । महामात्रीः प्रधानानि, पुरोधास्तु पुरोहितः ॥७२०॥ सौवस्तिकोऽथै द्वारस्थैः, क्षत्तौ स्यात् द्वारपालकैः । दौवारिकः प्रतीहारों", केयुत्सारकंदण्डिनः ॥७२१॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org