________________
[रथन्तरम् रथन्तरम् इयं (पृथिवी ) वै रथन्तरम् । कौ० ३।५॥ १०२।२॥
तै०१।४।६।२॥ तां०६ । ८ । १८॥ १५ । १०।१५॥ श०५।५।३।५॥ ९ ॥ १।२ । ३६॥ अयं वै (पृथिवी-) लोको रथन्तरम् । ऐ०८।२॥ राथन्तरो वा अयं ( भू-) लोकः । तै० १।१ । ८ ॥१॥ रथन्तर हीयम् (पृथिवी)। श०१।७।२।१७॥ उपहूत रथन्तर सह पृथिव्या । तै०३।५।८।१॥ श० १।८।१ । १९ ॥ वाग्वै रथन्तरम् । ऐ०४।२८॥ वाग्रथन्तरम् । तां०७।६।१७ ॥ . ब्रह्मवर्चसं वै रथन्तरम् । तै० २। ७ । १ : १॥
ब्रह्म वै रथन्तरम् । ऐ० ८। १, २ ॥ तां० ११ । ४।६ ॥ , ऋग्रथन्तरम् । तां० ७।६ । १७ ॥
अपानो रथन्तरम् । तां० ७! ६ । १४. १७ ॥
यस्वं तद्रथन्तरं यदीर्घ तद् बृहत् । कौ० ३।४ ॥ ,, देवरथो वै रथन्तरम् । तां० ७ । ७ । १३ ॥ , अन्नं वै रथन्तरम् । ऐ०८।१॥
राथन्तरी वै रात्री । ऐ०५। ३०॥
गायत्री वै रथन्तरस्य योनिः । तां० १५ । १० । ५॥ , गायत्रं वै रथन्तरम् । तां०५।१ । १५ ॥
गायत्रं वै रथन्तरं गायत्रछन्दः । तां०१५ । १०।९ ॥ एतद्वै रथन्तरस्य स्वमायतनं यद् बृहती। तां०४।४।१० अग्निर्वै रथन्तरम् । ऐ०५। ३० ॥ उप वै रथन्तरम् ( "उपशब्दसम्बद्धं हि रथन्तरपृष्ठ ज्यो. तिष्टोमे" इति सायणः)। तां० १६ । ५ । १४ ॥ ऐड रथन्तरम् । तां०७। ६ । १७ ॥ त्रिवृव त्रिणवश्च राथन्तरौ तावजवाश्वश्चान्वलज्येतां
तस्मात्ती राथन्तरं प्राचीनं प्रधूनुतः । तां० १० । २।५॥ " चतुरक्षर रथन्तरम् । तै० २ । १।५।७॥ , प्रजननं वै रथन्तरम् । तां०७।७।१६ ॥
यद्रथन्तरं तच्छाकरम । ऐ०४।१३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org