________________
[ अन्तरिक्षम् ( २ ) अन्तरिक्षम् अन्तरिक्षं वै सर्वेषां देवानामायतनम् । श०१५। ३।२।६॥
वैश्वदेवोऽयमन्तरा लोकः (= अन्तरिक्षम्) । जै० उ० १। ३७। ४॥ मध्यं वाऽअन्तरिक्षम् । श०७।५।१।२६ ॥ अबलिष्ट (अवरिष्ट इति पाठान्तरम् ) इव वा अयम्मध्यमो लोकः । तां०७।३।१८॥ अनिरुक्तो ह्येष (अन्तरिक्ष-)लोकः । श० १।४। १।२६ ॥ तस्मादेषां लोकानामन्तरिक्षलोकस्तनिष्ठः । श० ७ । १।२। २०॥ छिद्रमिवेदमन्तरिक्षम् । तां०३।१०।२॥२१ । ७।३॥ सन्धिरस्यन्तरिक्षाय त्वांतरिक्षं जिन्व (आकाशःसन्धिः। तै० उप०१।३।१) । तां०१।९ । ४॥ एतेन (अन्तरिक्षण) इमौ लोकौ (= द्यावापृथिव्यौ) विष्कन्धौ । जै० उ०१।२०।३॥ अन्तरिक्षण हीमे द्यावापृथिवी विष्टब्धे । श०१।२।१।१६।। ऊधर्वा अन्तरिक्ष (द्यावापृथिव्याख्यौ) स्तनावभितो नेन (पृथिवीरूपेण स्तन) वा एष देवेभ्यो दुग्धेऽमुना (धुलोकरूपेण स्तनेन) प्रजाभ्यः । तां० २४ । १।६॥ अन्तरिक्षेणेद सर्व पूर्णम् । तां० १५ । १२ । ५ ॥ महद्धीदमन्तरिक्षम् । कौ० २६ ॥ ११ ॥ अन्तरिक्षंवाअवर सधस्थम् । श०९।२।३1३९॥ अन्तरिक्षं वाऽअपासधस्थम् । श०७।५।२।५७॥ ( असुराः) रजतां (पुरी) अन्तरिक्षम् (अकुर्वत)। ऐ०१ । २३ ।। ( असुराः ) रजतां (पुरी) अन्तरिक्षलोके ( अकुर्वत)। कौ० ८। ८ ॥ रजता ( पुरी ) अन्तरिक्षम् । गो० उ०२।७॥ अयम्म आकाशः स मे त्वयि ( अन्तरिक्षे) । जै० उ० ३ । २१ । १४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org