________________
(७)
अथ यदाऽयमुपनिषद्वाक्यमहाकोशो मुद्रणयन्त्रारोहणार्हः समभवत्तदा ‘निर्धनस्य निस्सहायस्य च ममायं ग्रन्थः कथं मुद्रितो भवेत् ? कथं च विद्वद्वरकरकञ्जगतः सनुपयुक्तो भवेत् ?' इति चिन्तापानीयनिधिनिममं मां यावश्रुतपूर्वावपि सर्वान्तर्यामिणा परमात्मना प्रेरितौ करावलम्बदानेन समुद्धत्य मार्गप्रदर्शकावभवतां तावतो परमोदारावादिमं प्रशंसापदमारोढुमईतो जुन्नरकरघुर्योपनामालकृतौ महोदयौ । तत्राद्याः ‘जुन्नरकर' इत्याख्याः कराचीनगरे पश्चिमे प्रविभागे विश्वकर्मविद्यालयस्य 'इंजिनियरकॉलेज' इति नाम्ना प्रथितस्याध्यक्षपदं विभूष पन्ति, द्वितीयाश्चाद्वितीयाः 'घुर्ये' इत्याख्या अत्रत्यविश्वविद्यालय एवाध्यापकपदमलंकुर्वन्ति ।
द्वितीयप्रशंसापदार्टी महाशालिक्षेत्रस्था विद्यालङ्कारोपपदालंकृताः 'धूपकर' इत्युपाहा अनन्तयज्ञेश्वरशास्त्रिणः, यैरयमुपनिषद्वाक्यमहाकोशः प्रस्तावनालंकृतः ।
ताीय प्रशंसापदं तु गुजराती-प्रिन्टिंग-प्रेसकार्यकर्तारोऽत्मत्सहयोगिनो 'वैद्याः' इत्युपपदविभूषिता बालकृष्णोपासका बालकृष्णभास्करशास्त्रिण आरोढुमर्हन्ति, यैरेतत्कोशपथनानन्तरमस्मिन्वषत्रये साहाय्येन यदुपकृतं तदत्र विस्तरतो वर्णयितुं न शक्नोमि ।
तथा पितृपितामहादिभिः संगृहीता निबिडान्धकारपतियमुपनिषदिदानी लोकालोकनीयतामायास्विति तत्प्रदानेन, तत्तदाप्तिस्थानादिप्रदर्शनेन, धनादिना चैवं नानाप्रकारैः साहाय्यकारिणो येऽभवंस्ते सर्वेऽपि प्रशंसाही धन्यवाददानाश्चि सन्ति । तानप्यतिशयानेभ्यः प्राकृतसंस्कृतोपयुक्त ग्रन्थप्रकाशनेन पित्राचरितं विद्याविवर्धकं व्रतमनुवर्तमानेभ्यः परमोदारेभ्यः श्रीमच्छ्रेष्ठिपवरेभ्यः गुजरातीमुद्रणालयाविपतिभ्यः येषामनुग्रहेणानुगृहीतोऽहमेतद्भन्थलेखन-मुद्रण-प्रसरणादिव्यसनशतात्परिमुक्तः कृतकृत्योऽमवं तेभ्यः देसाईकुलविभूषणाना इच्छाराम सूर्यराम इत्याख्यानां श्रीमच्छेष्ठिवर्याणां तनूजेभ्यः 'नटवरलाल, मदनलाल, बाबुभाई' इत्याख्येभ्यः प्रशंसापदं कीदृग्विधं कतमं च देयं तदेतत्तदनुग्रहेण सञ्जातसर्वाङ्ग सुन्दरोऽयमुपनिषद्वाक्यमहाकोश एव हृष्टपुष्टकृष्टीनां कर्णेषु कथयिष्यति दर्शनसमकालम् । _अन्यच्च-व्यावहारिके कार्य क्रियमाणे यथा तत्प्रागेव तत्साधनोपसाधनानि सम्पायन्ते, तथैवास्य विरचनात्पूर्व तदादर्शभूतानामुपनिषदां सभाष्याणां सङ्कलनमावश्यकमिति जाननप्यहमेतकोशविरचनोपक्रममकरवम् , निःसत्त्वादुदरभरणायापि सेवावेतनस्यापर्याप्तत्वाच । अथ यदा सभाष्या उपनिषदो दृग्गोचरतां यातास्तदा विज्ञातमभवन्मुद्रिता मूलमात्रा उपनिषदः कचित्कचिदशुद्धप्राया विद्यन्त इति । परं को नामार्वाचीनः प्राचीनो वा वेदशास्त्रसम्पन्नो विद्वदग्रेसरोऽपि श्रुतिगतविषमस्थानानि तद्भाष्यावलोकनमन्तरेण समीकर्तु शक्ष्यति ? अहं तु सर्वथाऽकृतविद्योऽसज्ञ एव । अतो यथादृष्टानि वाक्यान्येवात्रालिखम् । तद्गतविषमशब्दार्थाचालोचनं तूपनिषद्विषमपदार्थकोशात् , शुद्धाशुद्धिस्थलादि च भाष्यादिसाहाय्येन संस्कृतादहदुपनिषत्सङ्ग्रहाचावधेयं विपश्चिद्भिर्विमर्शिभिः । बृहदुपनिषत्सङ्ग्रहस्तूपनिषद्विषमपदार्थकोशसमुपबंहितेनोपनिषत्सक्तिमुक्ताहारेण सहाचिरेण विद्वद्रमन्दिरातिथिर्भविष्यति ।
'नरठमतिविनाशो जायते पष्टिवर्षे ' इति न्यायातदुत्तरवयःस्थस्यापि मम तत्तद्वाक्याज्ञानोद्भुता वाक्यच्छेदपदच्छेदादयो दोषाः स्युरेव, तथा मानवजात्यवश्यम्भाविप्रमादभ्रान्त्यादिदोषवशान्मुद्रणयन्त्रगतविद्यदापातादिवशाच कचित्पतितं त्रुटितं च स्यादेव, तद्गुणदोषविवेकवद्भिर्विपश्चिद्रिः क्षन्तव्यमित्यन्ते विधाप्य विरमति
प्राज्ञपादपांसुःसाधले इत्युपाख्यो गजाननशंभुशर्मा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org