________________
श्रीमत्प्रतापसिंहनृपत्यभीष्टचिन्तनम् ।
वटोदराभिधे पुरेऽतिरम्यमन्दिरे पुरा
प्रजाप्रियः सुनीतिमान्सुरम्यहर्म्यवासकृत् । श्रियान्वितः प्रजावनं विधाय धीरमानितः
सयाजिभूपतिर्यथा शशास गौर्जरीमिलाम् ।। प्रतापवान्सुबुद्धिमान्सुशीलवान्गुणोदधिः
पितामहेन शिक्षितः सुराज्यसूत्रधारकः । श्रिया युतस्तथा सुखं प्रशास्तु गौर्जरी क्षिति
प्रतापसिंहभूपतिः शतायुरस्तु वर्धताम् ॥ यवत्सयाजिराजः पुण्यश्लोकः स एव राजर्षिः । विद्यावदातचरितो विद्यादानव्रतोत्सुकस्त्वनिशम् ॥ वितरन्स्वान्तामोदं विमलीकुर्वन्महीं यशःकिरणः । श्रीफत्तेसिंहसुतो गायकवाडान्वयाभ्रविमलेन्दुः॥ राजा प्रतापसिंहः पैतामहव्रतपालनौत्सुक्यात् । भवतु प्रियः प्रजानां विनयाधानावनादिभिः सुतराम् । सुराजराज्यलब्धतोषराजयः सुधीगणाः
सुखं वसन्तु सद्गणादिभिः सदा प्रपन्नया । श्रिया नता भवन्तु शीलशालिनः प्रजागणाः
सुयोगलब्धिरीदृशी विना कृपां न चेशितुः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org