SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ श्रीआगमोद्धारक-स्तवः (८) (४) एवं वस्वब्धिमितमथ ये वृष्टिवासं जनानां, पुण्याढयानामतिविनयतः सिद्धक्षेत्रे हि कृत्वा । 'खातारम्मं चरमजिनपस्याह्वया ह्यागमानां, रक्षागेहस्य च' सुभविकैः कारयामासुरत्र ॥ ८७ ॥ अन्यत्तत्र श्रमणनिकरग्रन्थसंग्राहि सङ्घ, संस्थाप्यारं शुभ महमदाबादपुर्या' यतीन्द्राः । भक्त श्रीमोहन' इति महच्छेष्ठिना सव्रतानां, ... रम्ये हाधापनविधिमखेऽभ्यर्थ्यमानाः प्रजम्मुः ॥ ८८ ।। सिद्धं शास्त्रैरुपकृतिकरं लक्षशो रूप्यकैस्तं, सम्पाद्योद्यापनविधिमलं 'शाम्पडापोल' मध्ये । तत्रावात्सुः शरनवनवैकाञ्चितेऽध्देऽब्दकाले. चाळ वीथ्यां सुगुरुचरणाः 'नागजिद् भूधराणाम् ॥ ८९ ॥ पश्चादेताः क्षरणसमयं यापयित्वाऽऽगमाना मागारस्य प्रचलितविधिं वीक्षितुं पालीताणाम् । साङ्गोपाङ्गं त्रुटिविरहितं सत्यमारब्धकृत्यं, ___ त्यक्त्वा सर्वस्वमपि सततं साधयन्त्येव सन्तः ॥ ९० ॥ कृत्वा लोकोत्तरसुचरितं ये तरन्तीह लोकं, धन्यास्ते वै सफलजनना भूभराः सन्ति चान्ये । सत्यामेतां भणितीमथ ते कर्तुकामा यतीन्द्रा स्तत्रातिष्ठन् घरसलिलदाऽऽसेककालत्रयीं ते ॥ ९१ ॥ १ श्रीवर्धमानजैनागमभंदिरस्य खातमुहृत्तमिति भावः । २ श्रमणसंचपुस्तकालयाख्यज्ञानालयस्थापनामित्यर्थः। ३ श्रेष्ठिवर्यश्रीमोहनलाल छोटालाल इति भावः। ४ वृष्टिकाले। ५ पोलवाची अयं शब्दो ज्ञेयः। ६ चातुर्मासमिति भावः । ७ शिलोत्कीर्णागममदिरस्येत्यर्थः । ८ चातुर्मासत्रयमित्यर्थः । ___Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy