________________
श्रीमदवर्द्धमानसूरिशिष्यश्रीजिनेश्वरसूरिसन्दब्धं
कथा कोशप्रकरणम् ।
॥ ॐ नमः सर्वज्ञाय ॥
नत्वा जिनं गुरुं भक्त्या वर्द्धमानं समासतः । कथाकोशस्य विवृतिं वक्ष्ये सूत्रानुसारतः ॥ १ ॥
इह चालीव दुर्लभं लब्ध्वा मानुषत्वमार्यदेशोत्पत्त्यादिकां च समासाद्य' समग्रसामग्रीं सुखलिप्सुभिः पुरुषार्थेषु यत्नो विधेयः । यत उक्तम् -
धर्मार्थकाममोक्षाणां यस्यैकोऽपि न विद्यते । अजागलस्तनस्येव तस्य जन्म निरर्थकम् ॥ परमपुरुषार्थश्च मोक्ष एव । तस्यात्यन्तिकानाबाधसुखहेतुत्वात् । तस्य च सम्यक्त्वादीनि साधनानि । 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः' - इति पूर्वसूरिवचनात् । अतस्तदुत्साहजनकं कथाकोशाख्यं 10 प्रकरणं चिकीर्षुराचार्यः शिष्टसमयपरिपालनाय विघ्नविनायकोपशान्तये च इष्टदेवतास्तवपूर्वमभिधेयप्रयोजनादिप्रतिपादकामिमामादावेव गाथामाह -
नमिऊण तित्थनाहं तेलोक्कपियामहं महावीरं ।
वोच्छामि मोक्खकारणभूयाई कइ वि नायाई ॥ १ ॥
,
अत्र गाथार्धेनेष्टदेवतास्तवम् उत्तरार्धेन च प्रयोजनादीन्याह - 'कइ वि नायाई' इत्यभिधेयपदम् | 15 'मोक्खकारणभूयाइँ' प्रयोजनपदम् । तदन्तर्गत एवाभिधेयाभिधानलक्षणः सम्बन्धोऽप्युक्त एवेति । पदघटना - - 'नत्वा'- - प्रणम्य, कम् ? - 'तीर्थनाथम् ' - चतुर्विधश्री श्रमणसङ्घाधिपम् । किंभूतम् ? – - ' त्रैलोक्यपितामहम्' – लोकत्रयस्य हितत्वात् पूज्यत्वाद् गुरुत्वाच्च पितामहम् । पातीति पिता, धर्म एव तज्जनकत्वाद्वा । कतम मित्याह - 'महावीरम् ' - चरमतीर्थकरम् । अत एव प्रस्तुततीर्थनाथम् । 'वक्ष्ये' - अभिधास्ये, 'मोक्षकारणभूतानि' - सम्यक्त्वाद्युत्साहजनकानि । 'कतिचित्' - स्तोकानि, 'ज्ञातानि' - उदाहरणानि दृष्टान्ता - 20 निति गाथासंक्षेपार्थः ।
-
यथाप्रतिज्ञातमेवाह
Jain Education International
जिणपूयाए तहाविह भावविउत्ता पावए जीवो ।
सुरनरसिवसोक्खाइं सूयगमिहुणं इहं नायं ॥ २ ॥
5
26
'जिनानाम् * - तीर्थकराणाम्, तह्निम्बानामपि पूजा तत्त्वतस्तेषामेव पूजा, जिनपूजा, तया; किंभूतया ? - ' तथाविध' भाववियुक्तयाऽपि ' - विशिष्ट बहुमानशून्ययाऽपि । अपेर्गम्यमानत्वात् । 1 B वासाद्य । 2 B मुक्ख । 3A विउत्ताय । 4 B पूजया जिनेन्द्राणां । 5 B नास्ति ' तथाविध' ।
6 B नास्ति वाक्यमिदम् ।
For Private & Personal Use Only
www.jainelibrary.org