________________
क० परिशिष्ट ]
गणधर र्द्धशतकप्रकरणान्तर्गत
१५
पप्लवैर्बाधितत्वेन दौः स्यादसंभव एव - इत्युद्यानवासः कथमधुन | तनमुनीनां कल्प्यमानः शोभेत । तस्मादिदानीं जिनगृहवास एव साधूनां संगतः प्रतिभाति । न च तत्राधार्मिकादयो दोषाः । तथा च प्रयोगः– चैत्यमिदानींतनमुनीनामुपभोगयोग्यम्, आधाकर्मादिदोषरहितत्वात् तथाविधाहारवत् । न चायमसिद्धो हेतुः, जिनप्रतिमार्थं निष्पादिते आयतने आधाकर्मादिदोषानवकाशाद् । यत्यर्थं क्रियमाणे हि तस्मिन्नाधाकर्मादिदोषः प्रादुर्भवेत् । किं च यतीनां चैत्यनिवासमन्तरेण सांप्रति कजिन भवनानां हानिः स्यात् । तथा हि- पूर्वं कालानुभावादेव श्रीमन्तोऽव्यग्रचेतसो देवगुरुतत्त्वप्रतिपत्तिभर निर्भरतयैतदेव परं तत्त्वमिति मन्यमानाः श्रावकाः परमादरेण चैत्यचिन्तामकरिष्यत् । सांप्रतं तु दुःषमादोषान्नक्तंदिवं कुटुम्बसम्बलचिन्तातापजर्जरितचित्ततयेतस्ततो धावतां प्रायेण दुर्गतानां श्राद्धानां खभवनेऽप्यागमनं दुर्लभम्, आस्तां जिनमन्दिरे । तथा च कुतस्त्या तत्समारचनादिचिन्ता तेषाम् । श्रीमतां तु प्रतिकलं मदालसवार विलासिनीघनसारशबलमलयजर सपंकिलपीनकुचकलशपीडनदुर्ललितानां निरन्तरमेव भूरिभूरि लिप्सया पार्थिवसेवावाकिनां जिनगृहावलोकनमेव न संपद्यते, दूरे तच्चिन्ता । तदभावे च जिनसदनानां विशर रुता स्यात् ; तथा च तीर्थोच्छित्तिरा पनीपद्यते । चैत्यान्तर्निवासे तु यतीनां तदुद्यमे च भूरि कालं जिनभवनान्यव तिष्ठेरन् ; तथा च तीर्थाव्यवच्छेदः । तदव्यवच्छित्तिहेतोश्च किञ्चिदपवादासेवनस्यागमेऽपि समर्थनात् । यदाह - " जो जेण गुणेण हिओ जेण विणा वा न सिज्झए जं तु" इत्यादि । तदेवं सूक्ष्मेक्षिकया विमृशतां विदुषां चेतसि चैत्यवास एवेदानीं संगतिमङ्गतीति ।'
(११) इत्यादि सूराचार्योपन्यस्तं समस्तमपि स्वहृदयेऽवधार्य, ततो 'भाविनि भूतवदुपचार' इति न्यायादुक्तं समुत्कटप्रावादुककर टिकरटतटपाटन पटिष्ठनिष्ठुर प्रकोष्ठ के सरसटाभारभासुरकेसरिणा भगवता श्रीजिनेश्वरसूरिणा । यथा - 'भो भोः सभासदः ! सदैव सर्वत्र यमलजननीप्रति मामलहृदः किंचिद्युक्तायुक्त विचारविषयमुपन्यस्यमानं प्रेक्षापूर्व कारिणो मात्सर्यमुत्सार्य माध्यस्थ्यमास्थाय सावधानीभूय शृण्वन्तु भवन्तः सन्तः । तत्र 'जिनभवननिवास एवेदानींतनमुनीनां समुचितस्तत्र निरपवादब्रह्मत्रतस्य संभवाद्, यतीनां च तदेव गवेष्यत' इत्यादिना, 'बंभवयस्स अगुत्ती' इत्याद्यन्तेन यद् यतीनां परगृहवसतिदूषणं बभाषे भवता भवतापहारिहारिशीलशालिना; तदिदानीं विकल्पपूर्वकं विचार्यते । तथा हि - यदियं परगृहवसतिः दृष्यते भवता यतीनां तत् किं सर्वदा उत इदानीमेव ? यद्याद्यः पक्षः, तदानीमुद्यानादिषु वसतां यतीनां कथंचिच्चौर द्युपद्रवात् कथं प्रतीकारः स्यात् ? । न च तदानीं कालसौस्थ्येन चौराद्युपसर्गाभावात् उद्यानवास एव यतीनां श्रूयते न परगृहवास इति वाच्यम् । तदापि तस्कराद्युपद्रवस्यानेकधाऽऽकर्णनात् । तथा तस्मिन्नपि काले मुनीनां परागाराश्रयस्यागमेऽभिधानाच्च । यदुक्तम् -
बाहिरगामे त्या उज्जाणे ठाणवसहिपडिलेहा । इहरा उ गहियभंडा वसही वाघाय उड्डाहो ॥ सन् विय हिंडता वसहिं मग्गति जह उ समुहाणं । लद्धे संकलिय निवेयणं तु तत्थेव उ नियट्टे ॥ तथा वृषभकल्पनया स्थापिते ग्रामादौ यतीनां वसतिगवेषण चिन्तायामुक्तम् -
नयइसु घिप्पइ वसही पुण्यामुहं ठविय वसहं । वामकडीइ निविद्धं दीही कयअग्गिमिकपयं ॥ सिंगक्खोडे कलहो ठाणं पुण नत्थि होइ चलणेसु । अहिठाणे पुट्टरोगो पुच्छम्मिय फेडणं जाण ॥ मुद्दमूलम्मिय चारी सिरे य ककुहे य पूयसक्कारो । खंधे पट्टीइ भरो पुट्टम्मि य धायउ वसहो ॥ न चैवंविधा वसतिर्ग्रामादिमध्यमन्तरेण संभवति । उद्यानवासे एव च तदानीमभिमते प्रतिपदमुक्तन्यायेन ग्रामाद्यन्तर्वसतिनिरूपणा नोपपद्येत । एवं च तदानीमपि परगृहबसतेर्यतीनां भावान्न प्रथमः पक्षः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org