________________
१२ श्रीजिनेश्वरसूरिचरितवर्णन ।
[क० परिशिष्ट न विना परिवादेन रमते दुर्जनो जनः । श्वेव सर्वरसान् भुक्त्वा विनाऽमेध्यं न तृप्यति ॥ महतां यदेव मूर्धनि तदेव नीचास्तृणाय मन्यन्ते । लिङ्गं प्रणमन्ति बुधाः काकः पुनरासनीकुरुते॥
ततो देव ! ये केचन मद्गृहे वर्तन्ते मुनयस्ते मूर्तिवन्तो धर्मपिण्डाः क्षान्ति-दान्ति-सरलत्व-मृदुत्वतपः-शील-सत्य-शौच-निष्परिग्रहत्वप्रमुखगुणरत्नकरण्डाः, चेतसाऽपि न पिपीलिकाया अप्युपतापमिच्छन्ति; कुतः पुनरेवं विधमिह-परलोकविरुद्धमकार्य ते करिष्यन्ति ? अतो न तेषां दूषणलेशोऽप्यस्ति । परं केषाश्चिद् दुरात्मनां विलसितमेतदिति ।' राज्ञोऽपि चित्ते प्रतिभातं तद्, यथाह पुरोहितस्तथैवैतत् संभाव्यत इति ।
६५) ततः एतां वार्तामाकर्ण्य सर्वैरपि सूराचार्यप्रभृतिभिः परिभावितम् – यदेतान् परदेशागतान् वादे निर्जित्य निस्सारयिष्यामः । ततस्तैराहूयाभिहितः पुरोहितो यत् - 'युष्मद्गृहावस्थायियतिभिः सह वयं विचारं कर्तुकामा आस्महे ।' तेषां पुरस्तेनोक्तम् – 'तान् पृष्ट्वा यत् खरूपं तद् भणिष्यामि ।' ततः खसदने गत्वा भणितास्तेन ते भगवन्तो यथा- 'विपक्षाः श्रीपूज्यैः सह विचारं कर्तुं समीहन्ते ।' तैरुक्तम् - 'किमत्रायुक्तम् ? एतदर्थमेव वयमागताः । परमत्रार्थे त्वया न मनागपि भेतव्यम् । किन्त्विदं( त्थं) ते युष्माभिर्वक्तव्याः- 'यदि यूयं तैः सह विवदितुकामास्तदा ते श्रीदुर्लभराजप्रत्यक्षं यत्र भणिष्यथ तत्र विचारं करिष्यन्ति । ते हि सद्धर्ममार्गप्रकटनार्थमेव विसंकटग्रामनगरादिष्वटाट्यमानाः सर्वत्र विरचन्तीति । ततो राजसमक्षं ते विचारकरणेऽतीव सोत्कण्ठास्तिष्ठन्तीति ।' ततस्तेषां पुरस्तथा पुरोधसोदिते, तैः समस्तैरात्मपाण्डित्यगर्वितैश्चिन्तितम् - सर्वेऽप्यधिकारिणस्तावदस्मद्वशवर्तिनस्तेभ्यो वैदेशिकेभ्यः कीदृगस्माकं भयमिति । भणितं च-'भवतु राजसमक्षं विचारः ।' ततः प्रमाणितं तद्वचः पुरोहितेन । तैरप्यमुकस्मिन् वासरे पंचासरीयबृहद्देवगृहे विचारो भविष्यतीति निश्चित्य, निवेदितं सर्वेषां पुरः । पुरोहितेनाप्येकान्ते भणितो नृपो यथा- 'देव ! आगन्तुकमुनिभिः सह स्थानस्थिता विचारं विधातुकामास्तिष्ठन्ति । स च विचारो न्यायवादिराजसमक्षं क्रियमाणः शोभते । ततो युक्तायुक्तविचारदौस्तत्र विचारप्रस्तावे भवद्भिः प्रसद्य प्रत्यक्षैभवितव्यम् ।' राज्ञोक्तम् – 'किमयुक्तम् ! कर्तव्यमेवैतदस्माभिः ।
६६) ततो निष्टंकितदिने तस्मिन्नेव देवगृहे सिंहासनगद्विकाचक्कलकादिप्रचुरतरमहत्तरासनाटोपेन पूर्वदेश-दक्षिणदेशाद्युद्भवविचित्रकच्चिका-नर्मिका-पट्ट-हीर-जादरि-गोजिकानिरग्रकीटधेतपीठराढिकापकल्लपट्टादिश्वेततराच्छाच्छतरप्रच्छादनपटीकटीतटीपट्टकप्रलम्बलम्बमानदशादण्डोद्दण्डस्पष्टनष्टाभिधेयरजोहरणनामधेयपदार्थकाण्डप्रमाणातिक्रान्तसन्दशप्रान्तमुखवस्त्रिकोज्वलमहामूल्यसूक्ष्मोचिकामेचककीचकोज्वल. बकचकायमाननिर्मानदण्डकादिवेषाडम्बरेण बहलताम्बूलरसाहितदशनरङ्गलिङ्गलिङ्गिनीतूलिकापट्टांशुकाच्छादनपट्टकलितललितसुखासनश्रीकरणिकामात्यश्रेष्ठिप्रमुखधनाढ्यश्राद्धनानाभक्तिविशेषवेषसविशेषभूषणभूषाविष्कृतस्फारतारशृंगारश्राविका विहितखकीयाचार्यगुणवर्णनानिबद्धधवलमङ्गलगीतोच्चारादिबृहत्स्फटाटोपेन सूराचार्यप्रभृतिचतुरशीतिसंख्य चैत्यवास्याचार्याः सूर्योदय एवागत्य खहस्तन्यस्तवादस्थलपुस्तिकाः समुपविविशुः। राज्यप्रधानपुरुषैराकारितः श्रीदुर्लभराजमहाराजोऽपि महता भटचट परिकरेणागत्योपविष्टस्तत्र । ततोऽभिहितं राज्ञा- 'पुरोहित ! क्षिप्रमाह्वानय तान् खसम्मतान् देशान्तरायातानार्यान् ।' ततस्त्वरितत्वरितपदं गत्वा श्रीवर्द्धमानसूरीन् एवं विज्ञपयति- 'भगवन् ! पंचासरीयदेवगृहे सर्वेऽप्याचार्याः सपरिवारा उपविष्टाः। श्रीदुर्लभराजमहीवल्लभश्च । सर्वेऽपि आचार्याः पूजितास्ताम्बूलदानेन भूभुजा । इदानीं युष्माकमागमनमवलोक्यते । एतत् पुरोहितमु खादाकर्ण्य श्रीवर्द्धमानसूरयः श्रीसुधर्मस्वामि-जंबूखामिप्रभृतिचतुर्दशपूर्वधरान्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org