________________
क० परिशिष्ट ]
गणधरसार्द्धशतकप्रकरणान्तर्गत रामादिप्रतिबन्धनियन्त्रितं करोमी'ति । तथैव चाकारि तेन । तथापि तस्य पुण्यात्मनो मनो न रमते चैत्यगृहावस्थितौ । युक्तं चैतद् । यतः
दुर्गन्धपङ्ककलिते शबतापरीतदुस्खोटिकोटिकयकोटकुटुम्बकीर्णे । त्यक्ते सुपत्रिभिरलम्बत शुभ्रपक्षाः किं कुत्सिते सरसि पादमपि क्षिपन्ति ॥ ततो 'वत्स ! एतत्सर्वं देवगृहमारामवाटिकादिकं त्वदायत्तं खेच्छया विलस । माऽस्मांस्त्वदेकप्रमाणान् मुच्च' इत्यादिकोमलालापपुरस्सरं निवार्यमाणोऽपि -
___'क ईप्सितार्थस्थिरनिश्चयं मनः पयश्च निम्नाभिमुखं प्रतीपयेत् ॥' इति न्यायेन 'यथा तथा प्रभो! कस्यापि सुविहितगुरोरङ्गीकारेण मया खहितमनुष्ठातव्यम्' इति विहितनिश्चितप्रतिबन्धः खाचार्यानुज्ञातः कतिपययतिपरिवृतो ढिल्ली-वादलीप्रमुखस्थानेषु समाययौ ।
६२) तस्मिंश्च समये तत्रैव श्रीउद्द्योतनाभिधानसूरयः सुविहिताः पूर्वमेव तत्पुण्यप्रेरिता इव विहृता अभवन् । ततस्तचरणकमलमूले शुद्धमार्गतत्त्वं निश्चित्य ते श्रीवर्द्धमानसूरयः सुनिश्चितोपचितहितसंपत्तिमुपसंपत्तिमाददिरे । तदनन्तरं श्रीवर्द्धमानसूरीणामियं चिन्ता जाता - यदुतास्य सूरिमन्त्रस्य कोऽधिष्ठाता ? तत्परिज्ञानायोपवासत्रयं चक्रुः । यावत्ततीयोपवासे धरणेन्द्रः समागतः । उक्तं च तेन यथा-- 'सूरिमन्त्रस्याहमधिष्ठायकः ।' निवेदितं सर्वसूरिमन्त्रपदानां प्रत्येकं फलम् । ततो जातः स्फूर्तिमानाचार्यमन्त्रः । तेन सस्फूर्तयः सपरिवारा वर्द्धमानसूरयो जज्ञिरे ।
६३) अस्मिन् प्रस्तावे विज्ञप्तं पण्डितजिनेश्वरगणिना- 'भगवन् ! ज्ञातस्य जिनमतस्य किं स्याद् विशिष्टं फलम् , यदि कापि गत्वा सन्मार्गप्रकाशो न विधीयते ? श्रूयते च विस्तीर्णो गूर्जरत्रादेशः, किन्तु प्रचुरचैत्यवास्याचार्यव्याप्तश्च । अतो यदि तत्र गम्यते इति मे मनः । ततः श्रीवर्द्धमानाचार्यरुक्तम् - 'युक्तमुक्तं भवता । परं शकुन-निमित्तादिकं परिभाव्यते ।' परिभावितं जातं च शुभशकुनादिकम् । ततो भामहमहत्सार्थसहिता आत्मनाऽष्टादशाश्चलिताः सूरयः । क्रमेण च पल्लीं प्राप्ताः। बहिर्भूमिगतानां तत्र पण्डितजिनेश्वरगणिसमन्वितानां श्रीवर्द्धमानसूरीणां मिलितः सोमध्वजो नाम जटाधरः। जाता तेन सहेष्टगोष्ठी । ततो गुणं दृष्ट्वा चक्राणे प्रश्नोत्तरे सूरिभिः । यथा
का दौर्गत्यविनाशिनी हरिविरिंच्युग्रप्रवाची च को
वर्णः को व्यपनीयते च पथिकैरत्यादरेण श्रमः। चन्द्रः पृच्छति मन्दिरेषु मरुतां शोभाविधायी च को
दाक्षिण्येन नयेन विश्वविदितः को वा भुवि भ्राजते । अनोत्तरम् ‘सो म ध्वजः' -द्विय॑स्तसमस्तः । सा ओम् , अध्वजः, सोमध्वजः । ततस्तुष्टोऽसौ जटाधरः । समुत्पन्नः श्वेताम्बरदर्शनेऽस्य बहुमानः । कृता प्रासुकान्नदान-लोकसमक्ष-गुणस्तुत्यादिका प्रतिपत्तिस्तेन । ततस्तेनैव भामहसंघातेन सह प्रस्थिताः । प्राप्ताश्च क्रमेणाणहिलपत्तने । उत्तीर्णा मण्डपिकायाम् । तस्यां च प्राकारमात्रेऽपि नास्त्याश्रयः । सुविहितसाधुभक्तः श्रावकोऽपि नास्ति, यः स्थानादिकं याच्यते । यावत्तत्रोपविष्टानामेव घों निकटीभूतः ।
ततोऽभिहितं पण्डितजिनेश्वरेण यथा- 'भगवन् ! एवमेवमुपविष्टानां न किमपि कार्य सिध्यति।' श्रीवर्द्धमानसूरयः -- तर्हि सुशिष्य ! किं क्रियते ? ।' जिनेश्वरपण्डितः - 'यदि यूयं ब्रूथ तदोच्चैर्गुहं दृश्यते तत्र व्रजामि ।' वर्द्धमानसूरयः -- 'वज ।'
क. प.2
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org