________________
७१२ अभिधानचिन्तामणिनाममाला
[प्रशस्तिः ॥ अथाऽस्य प्रशस्तिः ॥
(२ प्रतिपाठः) श्रीवीरक्र म आर्यरक्षितगुरुः सन्मार्गसंस्थापकस्तत्पट्टे जयसिंहसूरिरभवच्छ्रीधर्मघोषस्ततः । तत्पट्टेऽथ महेन्द्रसिंहसुगुरुः सुरीन्द्रसिंहप्रभस्तत्पट्टेऽजितसिंहसूरिरभवद् देवेन्द्रसिंहस्ततः ॥ १॥ (शार्दूल०) श्रीधर्मप्रभसूरिसिंहतिलक श्रीमन्महेन्द्रप्रभास्ते भ्यः साधुपमेरुतुङ्ग सुगुरुहँ सोपमस्तत्पदे । श्रीमच्छ्रीजयकीर्तिसूरिरभवत् तस्माज्जयात् केसरी, श्रीसिद्धान्तसमुद्रसूरिरमुतः श्रीभावसिन्धुर्गुरुः ॥ २ ॥ (शार्दूल०) सूरिः श्रीगुणसेवधिः समभवत् प्राज्यप्रतापोदयस्तत्पट्टाम्बुजराजहंससदृशः सूरीश्वरानुत्तरः संसाराम्बुधिपारलम्भनमहाबेडोपमः सद्गुणः, शास्ता सूरिशिरोवतंसकनिभः श्रीधर्ममूर्तिर्गुरुः ॥ ३॥ (शार्दूल०)
तत्पट्टपूर्वगिरिराजशिर:पतङ्गाः श्रीजैनशासनमहोन्नतिकारतन्त्राः निःशेषसाधुगुणसूरिशिरोवतंसाः, श्रीक्षेमसागरजगद्गुरवो जयन्ति
॥ ४ ॥ (वसन्त०) भास्वद् गुणनिधानानां, प्रस्तुतानां मनीषिणाम् शिष्या हि पुण्यचन्द्राह्वा, वाचकाः शोभिरे शुभाः ॥ ५ ॥ (अनुष्टुप्) तेषां माणिक्यचन्द्राख्यः, शिष्योऽभूद् वाचकाग्रणी: श्रीमद्विनयचन्द्राह्वस्तिच्छिष्यो रविचन्द्रकः ॥ ६ ॥ (अनुष्टुप्) तत्पादपङ्कजासक्तद्विरेफो देवसागरः एनां वृत्तिं शुभां चक्रे, शिष्यवर्गप्रसत्तये
॥ ७ ॥ (अनुष्टुप्) संवद्रसाष्टषट्चन्द्रै१६८६र्मिते वर्षे स(श)रदृतौ आश्विनार्जुनसप्तम्यां, स्तम्भतीर्थाभिधे पुरि
॥ ८॥ (अनुष्टुप्) युग्मम् ॥ विलोक्य विविधान् ग्रन्थान्, पाणिनिप्रवरोक्तिभिः । निर्मितेयं मया टीका, लक्ष्मीचन्द्रवराग्रहात् ॥ ९ ॥ (अनुष्टुप्) असूयारहितैः सद्भिः, परोपकृतिनिष्ठितैः शोधनीया प्रयत्नेन, बुद्धिव(म)द्भिः कृपापरैः ॥ १०॥ (अनुष्टुप्) अनाभोगात् तथा भ्रान्त्या. लिखितं मयकाऽनृतम् । न्यूनाधिकं च यत्किञ्चित् , क्षन्तव्यं विबुधैश्च तत् ॥ ११ ॥ (अनुष्टुप्)
॥ इति प्रशस्तिः ॥ १. इतोऽग्रे २प्रतौ-"श्रीश्रेयश्चाऽस्तु, सं-१८७९ना वर्षे, शाके १७४५ प्रवर्तमान्यै प्रथमचैत्रविद १० शनौ रात्रगत घटी ४ समे सम्पूर्णम् ॥ श्रीभुजनगरे चतुर्माशकृतं लिखतं मुनि मोहनसुंदर श्रीचिंतामणपार्श्वनाथप्रशादात् ॥ श्रीरस्तु ॥ कल्याणमस्तु ॥ श्री ॥श्री ॥ श्री ॥ श्री ॥छ ।" इति दृश्यते ॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org