SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ १० [ देवकाण्डः- २ तिथिप्रणीः। 'णीञ् प्रापणे' (भ्वा.उ. अ.), 'सत्सूद्विषद्रुहदुह- ' ३।२।६१ ॥ इत्यादिनैव क्विप् । ६ १४ कौमुद्याः, कुमुदिन्याः, भानाम्, दक्षजानाम्, रोहिण्याः, द्विजानाम्, निशायाः, औषधीनां च पतिः, तेन कौमुदीपतिः, कुमुदिनीपतिः, भपतिः, दक्षजापतिः, रोहिणीपतिः, द्विजपतिः । "सोमो राजा द्विजातीनाम् "[ अम.क्षीर. १ । २ । १५ ॥ ] इति क्षीरस्वामी । निशापतिः, औषधीपतिः, तासामाप्यायकत्वात् । तथा च"नक्षत्रग्रहविप्राणां वीरुधां चाप्यशेषतः । सोमं राज्ये ददौ ब्रह्मा यज्ञानां तपसामपि ॥३॥" [] इत्यागमः । यौगिकत्वाद् ज्योत्स्नेशः, कुमुद्वतीशः, नक्षत्रेशः, दाक्षायणीशः, रोहिणीशः, द्विजेशः, निशेशः, औषधीशः इत्यादयः ॥१०३॥ १५, जीवत्यनेन सुधावर्षित्वाज्जगदिति जैवातृकः । 'जीव प्राणधारणे' (भ्वा.प.से.), 'जीवेरातृकन् वृद्धिश्च' (उणा८०) इति आतृकन्-वृद्धी । जीवयत्याप्यायकत्वादिति वा । १६ समुद्रात्मजत्वाद् अद्भ्यो जात: अब्जः । 'जनी प्रादुर्भावे ' (दि. आ.से.), 'पञ्चम्यामजातौ ३ ।२ ।९८॥ इति डः, डित्त्वाट्टिलोपः । समुद्रनवनीतमपि । १७-२० कलाम् शशमेणम्, छायां ५० च बिभर्त्ति कलाशशैणच्छायाभृत् तेन कलां बिभर्त्ति कलाभृत् । ‘डुभृञ् धारणपोषणयोः’(जु.उ. अ.), 'क्विप् च '३ ।२ १७६ ॥ इति क्विप्, 'ह्रस्वस्य पिति कृति तुक् '६ ॥१॥ ७१ ॥ इति तुक् । एवं शशं बिभर्त्ति शशभृत् । एणं बिभर्त्ति एणभृत् । छ्यति तापं छाया । 'छो छेदने ' (दि.प.अ.), 'मावा[च्छा ] ससिसूभ्यो यः ' (उणा५४९ ) इति यः । छायां बिभर्ति छायाभृत्। यौगिकत्वात् कलानिधिः, शशधरः, मृगलाञ्छन:, छायाङ्कः इत्यादयः । २१ उनत्ति चन्द्रकान्तमणिरनेनेति इन्दुः । ' उन्दी क्लेदने ' ( रु.प.से.), 'उन्देरिच्चादेः'(उणा-१२) इत्युः, आदेश्चेकारः । यद्वा इन्दति ज्योतिष्केषु परमैश्वर्यमनुभवतीति इन्दुः । 'इदि परमैश्वर्ये ' (भ्वा.प.से.), ६० बाहुलकाद्' भृमृशीतृचरि- ' ( उणा - ७) इत्यादिना उः । २२ विध्यति ताडयति विरहिणः करैः कृत्वेति विधु: । 'व्यध ताडने' (दि.प.अ.), ‘पृभिदिव्यधिगृधिधिषिधृषिभ्य: कुं: ' (उणा - २३) इति कु:, कित्वात् संप्रसारणम् । विशेषेण धयन्ति सुरा एतमिति वा । 'धेट् पाने ' (भ्वा.प.अ.), 'ध[य]ति दीव्यति - ' ( ) इत्यादिना बहुलवचनात् कुः, 'आदेच उपदेशेऽशिति '६ १ १४५ ॥ इत्यात्वम्, 'आतो लोप - '६ ४१६४ ॥ इत्यालोपः । २३ अत्ति तपः स्वाध्या १. द्र. स्वोपज्ञटीका २११०३ ॥ पृ. २२ ॥ २. 'पासेवण' इति १.२ ॥ ३. " चन्द्रं रजतममृतं च तदिव मीयतेऽसौ चन्द्रमाः इति हरदत्तः” इति सि. कौ. तत्त्वबोधिनी, पृ.६४१ ॥ ४. 'चन्द्रे मो डित्' इत्युणादिगणे ॥ ५. अत्र 'असिः' इति पाठ्यम्, "चन्द्रोपपदाद् माङोऽसिः स्यात्, स च डित्" इति सिद्धान्तकौमुद्यामुणादिसूत्रविवरणात् ॥ ६. द्र. रामाश्रमी १।३।१३ ॥ पृ.४२ ॥ ७. 'परत्वम्' इति२ ॥ ८. द्र. स्वोपज्ञटीका २ । १०४ ॥ पृ. २३ ॥ ९. विग्रहे 'सूते इत्युक्तत्वाददादेः 'षङ् प्राणिगर्भविमोचने' इति युक्तः ॥ १०. प्र. पदचन्द्रिका, भा-१, दिग्वर्गः, श्रो- ८३, पृ.१०८ ॥ ११. ' - धृषिभ्यः' इति मुद्रितोणादिगणे ॥ ३० ३४ आश्विनौ तु पार्श्वद्वये तौ द्वावेव किशोरकौ । इत्यष्टादशको वर्गश्चण्डांशोः पारिपार्श्विकाः॥७॥" ['] इति । 'पासेवाणे' इति लोकभाषाप्रसिद्धाः ॥ १०३॥ चन्द्रमाः कुमुदबान्धवो दशश्वेतवाज्यमृतसूस्तिथिप्रणीः । कौमुदी - कुमुदिनी -भ-दक्षजारोहिणी-द्विज-निशौषधीपतिः ॥ १०४ ॥ जैवातृकोऽब्जश्च कैलाशशैणच्छा॒याभृदिन्दु॑र्वर्धुरत्रिर्हंग्जः । जानिश रत्नाकरौ च चन्द्रः सोमो ऽमृतश्वेतहिमद्युतिग्लौः ॥१०५॥ १ चन्द्रं कर्पूरं सादृश्येन माति तुलयति, चन्द्रमाह्लादनं वा माति चन्द्रमाः । 'मा माने ' ( अ.प.अ.) अदादिः, 'मातेश्चन्द्रे मो डिर्चे' (उणा-६६७ ) इत्यसुन्ं, ' अत्वसन्तस्य चाऽधातो: ' ६।४।१४॥ इत्युपधादीर्घः । चन्द्रमसौ चन्द्रमसः इत्यादि । बाहुलकात् के[ वलाद]प्यसुनि माः । अत एव "माः शब्दो ( मास्शब्दो ऽपीह चन्द्रे च सम्मतो बहुहुश्वनाम् " [] इत्युत्पलिनी । यद्वा 'माङ् माने' (जु.आ.अ.), कालं मिमीते परिमाति वा माः । माश्चासौ चन्द्रश्च चन्द्रमाः । " राजदन्तादिषु परम् २।२। २० ३१ ॥ [ ] इति तु स्वामी । चन्दति आह्लादयति दीप्यते वा चन्द्रमाः । चदि आह्लादनदीप्त्यो:' (भ्वा.प.से.), 'चन्दे ( चन्दो) रमस्' (हैमोणा - ९८६ ) इति रमस् इति हैमोणादिः । २ कुमुदानां बान्धवः कुमुदबान्धवः । यौगिकत्वात् कैरवबन्धुरित्यादयः । सुहृदपि बन्धुप्रायत्वाद् बन्धुरेवेति कुमुदसुहृदित्यादयोऽपि । ३४ दशसंख्या श्वेताश्च वाजिनो यस्य स दशश्वेतवाजी (श्वेतवाजी), इन्नन्तः, दशाश्वः । यद् व्याडि: 44 'अश्वास्तु दश चन्द्रस्य यजुश्चन्द्रमसो वृषः । सप्तधातुर्हयो वाजी हंसो व्योममृगो नरः ॥१॥ अर्वा चाथ चन्द्रमस: स्थानेऽस्ति त्रिघनाः क्वचित् । सप्तधातो: पुन: स्थाने सहरुण्योऽस्ति कुत्रचित् ॥२॥ [] । श्वेतवाजी सिताश्वः । ५ अमृतं सूते अमृतसूः । ' षूङ् प्रसवे' (अ.आ.वे.), 'सत्सूद्विषद्रुहदुह- '३ ।२।६१ ॥ इत्यादिना क्विप् । यौगिकत्वात् सुधासूरित्यादयोऽपि । ६ तिथीः प्रणयति अभिधानचिन्तामणिनाममाला Jain Education International For Private Personal Use Only ४० www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy