________________
१०
१५३०-१५३३ ]
( ३.४.५ प्रतिपाठः ) १ भूयः सकारान्तः । २ 'पुनः पुनः ' ' इति चतुरक्षरोऽखण्ड: । ३ 'असकृद्' इति व्यञ्जनचतुर्थवर्गाद्यान्तः । 'मुहुः' सकारान्तः । वलीवलीनामानि पञ्च ॥
सायं तु दिनान्ते
व्युत्पत्तिरत्नाकरकलिता
( १.२प्रतिपाठः ) १ "सायंतनो वायुः "[] । सन्ध्यार्थोऽयम् ॥
( ३.४.५ प्रतिपाठः ) १ सायम्' इति मान्तम् । दिनान्ते दिवसावसाने । उसूरनामैकम् ॥
दिवसे दिवा ॥ १५३१॥ ( १.२ प्रतिपाठः ) १ दिनार्थोऽयम् ।
( ३.४.५ प्रतिपाठः ) १ एकं दिनस्य, दिवा द्वितीयस्वरान्तः ॥ १५३१ ॥
सहसैकपदे सद्योऽकस्मात् सपदि तत्क्षणे ।
4
""
( १. २ प्रतिपाठः ) १ [ सहसा ] तृतीयान्तप्रतिरूपकम् । 'सहसा विदधीत न क्रियाम्" [ किरातार्जुनीयम्, सर्गः - २, श्री - ३०] । २ 'एकपदे' इतीदं विभक्त्यन्तप्रतिरूपकम् । 'अयमेकपदे तया वियोग: "[विक्रमोर्वशीयम्, अङ्क - ४, श्री - १०] । ३ समानेऽहनि सद्यः I २० यथा- " सद्यः पतति मांसेन " [ ] | ४ 'अकस्माद्' इति विभक्त्यन्तप्रतिरूपकम् । यथा- " अकस्मादायातः"[]। ५ "सपदिप्रवहत्युपेक्षितोऽग्निः "[]। एते तत्क्षणार्थाः ॥
( ३.४.५प्रतिपाठः ) १ सहसा द्वितीयस्वरान्तः, विभक्त्यन्तप्रतिरूपको वा । यथा- "सहसा विदधीत न क्रिया (क्रियाम्) "[ किरातार्जुनीयम्, सर्गः - २, श्री - ३०] इति । २ 'एकपदे' इति विभक्त्यन्तप्रतिरूपकमेकादशस्वरादिः । यथा- " अयमेकपदे तया वियोग: "[विक्रमोर्वशीयम्, अङ्क :- ४, श्री - १० ] इति । ३ 'सद्यः' सकारान्तः । ४ 'अकस्माद्' इति विभक्त्यन्तप्रतिरूपकम् । ५ ३० 'सपदि' इति तृतीयस्वरान्तः । तत्कालनामानि पञ्च । 'तिवारेंहींज' इति भाषा ॥
चिराय चिरत्राय चिरस्य च चिराच्चिरम्
Jain Education International
चिरेण दीर्घकालार्थे
( १.२प्रतिपाठः ) १ " चिराय निर्धनो भूत्वा भवत्यह्ना(-द्धा) महाधनः "[स.कं. पृ. ३८] । २ " हविर्यच्चिररात्राय प्रत्यपद्यत "[]। ३ " चिरस्य यत् पुनः " [] ४ " चिराद् दृष्टोऽसि " []। ५ " चिरं जीवी" [] ।। १५३२ ।। ६ "चिरेण सञ्चितं पापं प्रणश्यति जिनार्चनात् "[]। एते दीर्घकालार्थाः ॥
( ३.४.५ प्रतिपाठः ) १ 'चिराय' इति । यथा"नैषधेन समशायि चिराय "[] [२ " चिररात्राय यजते " ] । ३ 'चिरस्य' इति । यथा - " निर्जितस्मर ! चिरस्य निरस्य " [ ] इति । [४ " चिराद् दृष्टोऽसि "[] । ५ चिरन्तनमिदं वृत्तं बलीषु तस्याः स्खलिताः "[]] ।। १५३२ । ६ चिरेण । यथा- "चिरेण तन्मध्यममुञ्चताऽस्य॑ ''[]इति । एते षडपि विभक्त्यन्तप्रतिरूपकाः । चिरकालनामानि षट् ॥
७०३
कदाचिज्जतु कर्हिचित् ।
( १.२प्रतिपाठः ) १ " कदाचिच्छूरतां याति मरणे ५० कृतनिश्चयः''[]। २ "न जातु कामः कामानामुपभोगेन शाम्यति ' [ मनुस्मृतिः, अध्या-२, श्रो- ९४] । ३ "कर्हिचिद् भवति "[]। एते कदाचिदर्थाः ॥
( ३.४.५ प्रतिपाठः ) १ यथा - "कदाचिदस्यायुवधेर्य्यलोपिनम् "[] इति । कदाचिन्नामानि त्रीणि ॥ दोषा नक्तमुषा रात्रौ
॥ १५३२ ॥
१. 'स्ति' इति ॥ २. 'तिवारइजइ' इति३, 'तिवारेंज' इति५ ॥ ३ ' त्यस्य' इति३ ॥ ४ पनम्' इति४ ॥
( १.२प्रतिपाठः ) १ " दोषामन्यमहः "[]। २ “नक्तञ्चरः’[]। ३ "उषातनो वायुः " []। एते रात्र्यर्थाः ॥ ( ३.४.५ प्रतिपाठः ) १ उषा, मूर्धन्यमध्यः । त्रीणि रात्रेः ॥
६०
प्रेगे प्रीतरहर्मुखे ॥ १५३३॥ ( १.२ प्रतिपाठः ) १ 'प्रगे' इति विभक्त्यन्तप्रतिरूपकम् । यथा- ‘“प्रगेतनो वायुः ''[ ] । २ " प्रातरेव समुत्थाय " []। एतौ प्रभातार्थौ ॥
( ३.४.५ प्रतिपाठः ) १ 'प्रगे' इति सप्तम्यन्तप्रतिरूपकम् । द्वे प्रभातस्य ॥१५३३ ॥
४०
For Private Personal Use Only
www.jainelibrary.org