________________
६७८
44
इति पेठुः । २ अवलम्बतें' स्म अवलम्बितम् । —लबि अवस्रंसने ' (भ्वा.आ.से.), क्तः । 'अवलम्बनम् "[ अम. क्षीर. ३ । १ । ८३ ॥ ] इति स्वामी । " केचित्तु - अविलम्बितमित्याशुकार्यमाहुः । "उच्चण्डमुत्तालमिति हि सभ्याः [ अम. क्षीर. ३ । १ ८३ ॥ ] इति क्षीरस्वामी । द्वे शीघ्रकार्यकरण
स्य ॥१४७८ ॥
अभिधानचिन्तामणिनाममाला
अनादृतमवाद् ज्ञातं मानितं गणितं मतम् ।
१ न आद्रियते स्म अनादृतम् । आङ्पूर्वः 'दृ (दृङ्) आदरे'(तु.आ.अ.), क्तः । २५ अवशब्दात् परे १० ज्ञातादयश्चत्वारः, तेन अवज्ञायते स्म अवज्ञातम् । अवमान्यते स्म अवमानितम् । अवगण्यते अवगणितम् | ' गण सङ्ख्याने ' ( चु.उ.से.), चुरादिः । अवमन्यते अवमतम् 'मनु (मन) ज्ञाने' (दि.आ.अ.), निष्ठा, 'अनुदात्तोपदेश - '६ ।४ ।३७ ॥ इत्यनुनासिकलोपः । पञ्च अनादृतस्य । 'अवगणिउ' इति भाषा ॥ रौढाऽवज्ञाऽवहेलान्यसूर्क्षणं चाऽप्यनादरे ॥१४७९ ॥
१ रेहणं रीढा । 'रिह कत्थनादौ ' ( तु.प.से.),
निष्ठा, ‘हो ढ:’८।२।३१॥, ‘झषस्तथो: - '८।२ ।४० ॥ इति धत्वम्, 'ढो ढे लोपः '८ । ३ । १३ ॥, 'ठूलोपे - '६ । ३ ।१११ ॥ २० इति दीर्घत्वम्, स्त्रीत्वं लोकात् । २ अवज्ञानम् अवज्ञा । 'आतश्चोपसर्गे '३ । ३ । १०६ ॥ इत्यङ् । ३ अवहेलनम् अवहेला (अवहेलम् ) । 'हेडृ अनादरे ' ( भ्वा.आ.से.), घञर्थे कः, डलयोरेकत्वस्मरणम्, त्रिलिङ्गोऽयम् । ४ न सूर्क्ष्यते असूर्क्षणम् । 'सूर्क्ष आदरे ' (भ्वा.प.से.), ल्युट्, रेफमध्योऽयम् । नं सुष्ठु उक्षणमसूक्षणमिति लक्षणयाऽवज्ञा गम्यते । यद्वा धातूनामनेकार्थत्वादसूनामुक्षणं त यत्र तदसूक्षणम्, नीरेफम्, दन्त्यसम्, दीर्घमध्यमपि । "न
Jain Education International
[सामान्यकाण्डः - ६
"
विद्यते शोभनः क्षणो यस्मात् तदसुक्षणम् ह्रस्वमध्यमपि ' ["] इति पञ्जिका । ""सुर्क्ष अनादरे " (भ्वा.प.से.), ह्रस्वोकारात् परोऽत्र रेफः, सो दन्त्यः, ततः सम्पूर्वाद् ल्युट् । ३० " संसुर्क्षणमनादरे "[ ] इति त्रिकाण्डे च " [ ] इति धातुप्रदीपः । एवं चाऽकारादित्वम् इह प्रमादः "[ ] इत्याहु:, तत्तु (तन्न), " रीढावज्ञयोषित्यसूर्क्षणं (-सूक्षणं) शर्णके(?) तिरस्कारः " इति रत्नकोशादावपि दर्शनात् । हड्डचन्द्र [ स्वरसस्तु ] अकारादिक एवेति । " एवं चेह पृष्टापृष्टवन्नञः प्रकृत्यर्थम् ' ["]इति तु कौमुदीँ" । [५ न आदरः अनादरः, तत्र]। पञ्च रीढाया: । 'अवहेला' इति भाषा ॥। १४७९ ।।
उन्मूलितमावर्हितं स्यादुत्पाटितमुर्धृतम् ।
१ उन्मूल्यते स्म उन्मूलितम् । 'मूल प्रतिष्ठायाम्' (भ्वा.प.से.), क्तः । २ आवर्ह्यते स्म आवर्हितम् । ४० 'बर्ह बल्ह प्राधान्ये (भ्वा.आ.से.), क्तः । ३ उत्पाटयते स्म उत्पाटितम् । 'पट विस्तारे' ( ), णिजन्तात् क्तः । ४ उद् ऊर्ध्वं ध्रियते स्म उद्धृतम्। उपूर्व: ( उत्पूर्वः) 'धृञ् धारणे' (भ्वा.उ. अ. ), क्तः । चत्वारि उन्मूलितस्य ॥ प्रेङ्खोलितं तरर्लितं लुलितं प्रेङ्खितं धुतम् ॥१४८० । चलितं कम्पितं धूतं वेल्लितादपि । प्रेङ्खोलितम् । 'प्रेङ्खोल दोलने, ( ), चुरादिः, क्तः । २ तरलं क्रियते स्म तरलितम् । तरलशब्दात् 'तत्करोति तदाचष्टे ' (गणसू-३ । १ । २५ ) इति णिजन्तात् क्तः । ३ लुल्यते स्म लुलितम् । 'लुल ५० विलोलने'(भ्वा.प.से.), क्तः । ४ प्रेङ्ख्यते स्म प्रेङ्खितम् । प्रपूर्वः 'इखिं गतौ ' (भ्वा.प.से.), दण्डकधातुः, ततः क्तः । ५ धूयते धुतम् । 'धूञ् कम्पने ' (स्वा.उ.से.), पञ्चम
१ प्रेङ्खोल्य
४ इतोऽग्रे ३प्रतौ योज्याः' इति दृश्यते ॥ ५ 'माणि-' इति५ ॥ ६.
१. ' -म्ब्यते' इति३ ॥ २. 'अवि-' इति४ ॥ ३. 'माणि-' इति३.५ ॥ ' - वौ' इति३ ॥ ७ 'ऋह कत्थनयुद्धहिंसादानेषु' इत्यत्र स्वामिनोक्तम्- " रिह इति द्रमिडा:- रिहति, रेहयति" इति क्षीर. पृ. २४८ ॥ ८ 'अनादरे' इति ४.५ ॥, 'सूर्क्ष्य अनादरे' इति स्वामी, 'षूर्क्ष अनादरे' इति मैत्रेयः, 'षूर्क्ष आदरे' सायणः । अत्र भट्टोजि:- "अनादरे इति तु क्वाचित्कोऽपपाठः” इति । अवज्ञावहेलनमसूर्क्षणमित्यमरः । सूर्क्षणमादरः ॥ ९ ४.५ प्रत्योर्नास्ति ॥ १०. द्र. पदचन्द्रिका, भा-१, नाट्यवर्गः, श्री - १९८, पृ. २३६ ॥ ११. 'सू' इति ॥ १२. अत्राऽपि पूर्वोक्तं बोध्यम् ॥ १३. 'संमुक्षण-' इति१, 'संसू' इति३ ॥ १४. धातुप्रदीपे वचनमिदं न दृश्यते ॥ १५. " सुक्षणमिति । 'सुर्क्ष अनादरे' । रेफवान् । ल्युट् । नैरुक्तौ रेफलोपः । दीर्घत्वे सूक्षणमिति । राजश्रीधातुवृत्तिः । ‘अवहलेमसूक्षणम्' इति पाठान्तरम् । हड्डचन्द्रश्च - " अवहेलस्य घञन्तत्वान्नपुंसकत्वाभावात् सोऽसाधुरिति केचित् । तथा चामरमाला"क्षेपोऽवहेलो निर्वादः परिभावोऽप्यनादरः । निकार : सूक्षणं षण्डे हेलावज्ञे स्त्रियौ मते ॥” इति । असुर्क्षणोऽपि नामानुशासने पुंस्काण्डे दृश्यते । 'परिभावोऽसुर्क्षणः परीभावः क्षेपः' इत्यादि । तथा चाविद्यमानः सुर्क्षणः सुहर्षोऽस्येति व्युत्पत्तिः ॥” इति टीकासर्वस्वम्, भा-१, १७।२३ ॥ पृ. १५३ ॥ १६. ' वहति' इति ॥ १७. अत्र वबयोरैक्यं बोध्यम् ॥ १८. 'ध्रुवम्' इति५ ॥ १९. 'ते' इति३ ॥ २०. “आन्दोलयति, प्रेङ्खोलयति, वीजयत्येते लोकात्" इति स्वामी, क्षीर. पृ. २९७ ॥ २१. 'इगि' इतिर, 'इण्' इति५ ॥ २२. 'धू' इति२.५ ॥
For Private Personal Use Only
www.jainelibrary.org