________________
६६६
(नश्च) पुराणे प्रात्'(वा-५ ४ १३० ॥ ) इति प्रशब्दात् लेः, चकारात् तनश्च । ७ जीर्यते जरन् । 'ज़ वयोहानौ' (क्र्या. प.से.), ‘जीर्यतेरतृन्’३ ।२ । १०४ ॥ । जरन्तौ, जरन्तः इत्यादि पुंसि । जरती, जरत्यौ, जरत्यः इत्यादि स्त्रियाम् । जरत् जरती, जरती, जरन्ति इत्यादि क्लीबे । "जरत्तृणानीव वियन् निनाय ''[किरातार्जुनीयम्, सर्गः - १६, श्री - ४४] इति भारविः । सप्त पुराणस्य । 'जूनुं' इति भाषा ॥ मूर्तं तु मूर्तिमत् ।
१ मूर्च्छति स्म मूर्तम् । 'मूर्च्छा मोहसमुच्छ्रा१० ययोः ' ( भ्वा.प.से.), 'निष्ठा'३ ।२ । १०२ ॥ इति क्तः, 'न ध्याख्यापमूर्च्छि मदाम् '८ १२ ।५७ ॥ इति निष्ठातस्ये नत्वप्रतिषेधः, 'राल्लोपः '६ ।४।२१ ॥ इति छलोपः । २ मूर्तिरस्याऽस्ति मूर्तिमत्, त्रिलिङ्गः । अत्र मूर्तिशब्द: कायपर्यायः । यच्छ्रीधरः- “मूर्तिः कायेऽपि काठिन्येऽपि "[विश्वलोचनकोशः, तान्तवर्गः, श्रो- ४४] इति । द्वे मूर्तिमतः ॥ उच्चावचं नैकभेदम्
३०
अभिधानचिन्तामणिनाममाला
१ उन्नतं चाऽवनतं च उदक् चाऽवाक् च वा उच्चावचम् । मयूरव्यंसकादिः । २ न एको भेदोऽत्रेति 'नैकभेदम् । त्रिपदो बहुव्रीहि:, तेनोत्तरपदत्वाभावान्न२० लोपाभाव:, तत्र हि ' - उत्तरपदे - '६ ॥ ३ ॥१ ॥ इत्यनुवर्तते, 'सर्वान्तमुत्तरपदम्' इति तत्र व्याख्यातम् । न शब्देन समासः । द्वे अनेकप्रकारस्य । 'ऊंचानीचा' इति भाषा ॥
अतिरिक्ताधिके समे ॥१४४९॥ १ अतिरिच्यते स्म अतिरिक्तम् । 'रिचिर् विरेचने' (रु.उ. अ.), निष्ठा । २ अध्यारूढम् अधिकम् । [— अधिकम् '५ ।२ ।७३ ॥ ] इति सूत्रेण निपात्यते, अध्यारूढस्योत्तरपदलोपश्च निपात्यते कश्च प्रत्ययः । द्वे अधिकस्य
॥१४४९ ॥
पार्श्व समीपं सविधं ससीमा -
भ्याशं सर्वेशाऽन्तिकसन्निकर्षाः ।
[सामान्यकाण्ड :-६
धानान्युपान्तं निकटोपकण्ठे ॥१४५० ॥ सन्निकृष्टसमर्यादाभ्यर्णान्यासन्नसन्निधी ।
Jain Education International
१ स्पृश्यते पार्श्वम् । 'स्पृश संस्पर्शने ' ( तु.प.अ.), 'स्पृशेः श्वः पार् च' (हैमोणा - ५२३ ) इति साधुः । २ सङ्गता आपोऽत्रेत्युपचारात् समीपम् । 'ऋक्पूरब्धूः- ' ५ ।४ । ७४ ॥ इत्यादिना अप्रत्ययः, 'द्वयन्तरूपसर्गेभ्योऽप ईत्'६ ॥३॥९७॥ ॥ ३ समाना विधा मर्यादा अस्य सविधम् । ४ समाना सीमा अस्य ससीमम् । ५ अभ्यस्यते (अभ्यश्यते) व्याप्यते अभ्याशम् । अभिपूर्वः 'अशूई ४० (अशू) व्याप्तौ ' (स्वा.आ.से.), घञ्, तालव्यान्तोऽयम् । " ऊर्वश्यभ्याशशितिः "[ ] इत्यूष्मविवेकात् । अभ्यस्त इति अभ्यास इति । 'असु क्षेपणे ' ( दि.प.से.), घञि, दन्त्यान्तोऽपि । यद्गौडः " अभ्यासस्तु समीपे स्यात् पुमानभ्यसनेऽपि च ''[] इति पुंस्ययम् । ६ समानो वेशोऽस्य सवेशम् । ७ अन्तोऽस्त्यस्य अन्तिकम् । 'अत इनिठनौ' ५ । २ । ११५ ॥ इति ठन् । ८ सन्निकृष्यते सन्निकर्षः 'कृष विलेखने' (भ्वा.प.अ., तु.उ. अ.), घञ् । ९ समानो देशोऽस्य सदेशम् । १० अभिमुखमग्रमस्य अभ्यग्रम् । ११ समानं नीडं वासस्थानमस्य सनीडम् । १२ सन्नि- ५० धीयतेऽत्र सन्निधानम् । अधिकरणे ल्युट् । १३ उप समीपेऽन्तोऽस्य उपान्तम् । १४ निबध्नाति निकटम्, पुंक्ली. । 'सम्प्रोदश्च ५ । २ । २९ ॥ इति चकारात् कटच् । १५ कण्ठस्य समीपमुपगतं उपकण्ठम् ॥१४५० ॥ १६ सन्निकृष्यते स्म सन्निकृष्टम् । १७ समाना मर्यादा अस्य समर्यादम् । सविध[ससीम] सनीडसवेशसदेशसमर्यादेषु लक्षणया सामीप्यम् । १८ अभ्यर्धते अभ्यर्णम् । अभिपूर्व : 'अर्द गतौ ' (भ्वा.प.से.), क्तः, 'रदाभ्यां निष्ठातो नः पूर्वस्य च दः ८ २ ।४२ ॥ इति निष्ठाक्तस्य (निष्ठातस्य ) नत्वम्, 'अभेश्चाविदूर्ये ७ । २ । २५ ॥ इतीडभावः । १९६० आसीदति स्म आसन्नम् । 'षद्लृ विशरणादौ ' (भ्वा.प.अ., तु.प.से.), क्तः । २० सन्निधीयतेऽस्मिन्निति सन्निधिः, पुंसि । 'उपसर्गे घोः किः ३ । ३ ।९२ ॥ इति किः । एते पार्श्वाद्याः सन्निकर्षनिकटसन्निधिवर्जाः सर्वे क्लीबलिङ्गाः । सामान्येन विंशतिः समीपस्य ॥
सदेशमभ्यग्रसनीडसन्नि
१. 'तन्' इति३ ॥ २. 'लश्च' इति ॥ ३. इतोऽग्रे ३प्रतौ 'स्म' इति दृश्यते ॥ ४. ' - नूं ' इति
नउ' इति, 'नू' इति४ ॥ ५. ' - न्तस्य ' इति४ ॥ ६. ‘-स्तीति' इति१ ॥ ७ तुलनीयोऽमरकोषः ३ । १ ४८३ ॥ ८. 'अनेक-' इति ॥ ९. 'व्याख्या' इति१ ॥ १०. स्पृशेः श्वण्शुनौ पृ च' (उणा - ७०५ ) इति पाणिनीयसम्मतोणादिगणे ॥ ११. ' - सम्' इति१.४.५ ॥ १२. 'असुङ्' इति३.५ ॥ १३. 'अशू व्याप्तौ सङ्घाते च' इति मैत्रेयसायणौ ॥ १४. ' -श्यत' इति५ ॥ १५. ' - श:' इति३, 'सम्' इति५ ॥ १६. 'वास' इति४ ॥ १७. ४प्रतौ नास्ति ॥ १८. 'समीप्यम्' इति३.५, 'समीपां' इति४ ॥
1
For Private Personal Use Only
www.jainelibrary.org