SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ १३४८ - १३५५ ] व्युत्पत्तिरत्नाकरकलिता गतिः। ६ षोडश अंह्नयोऽस्य षोडशांह्निः । ७ कुरन् शब्दायमानश्चिल्लति कुरचिल्ल: । 'चिल्ले शैथिल्ये ' (भ्वा.प.से.), अच्। कुरति कुरः । ( ' इगुपध- '३ । १ । १३५ ॥ इति कः ) । कुरश्चिल्लतीति वा ॥ " "कर्कटः कुरचिल्लः स्यात् कुलीरः परिभाषितः । बहिश्चरः षोडशांहिः कुरचिल्लो द्विधागतिः ॥१॥ [] | 'किरचिलु' इति पथ्यापथ्यकारः । ८ जलाद् बहिश्चरति तरीतुमनभिज्ञत्वाद् बहिश्चरः । अष्टौ कुलीरस्य ॥१३५२॥ कच्छपः कर्मठः कूर्मः क्रोडपादश्चतुर्गतिः । पञ्चाङ्गगुप्तदौलेयौ जीवंथः १ कच्छोऽनूपप्रायः कूर्मपादो वा, तं पाति कच्छपः । 'पा पाने' (भ्वा.प.अ.), 'आतोऽनुपसर्गे कः '३ ।२ ॥ ३ ॥ ॥ कत् कुत्सितं शपतीति वा । अच् । २ काम्यते यज्ञार्थं कमठः । 'कमु कान्तौ ' (भ्वा.आ.से.), बाहुलकादठन् । मठति निवसतीति वा । 'मठ निवासे (भ्वा.प.से.), अच् । ३ किरति कुरति वा कूर्मः । 'रुक्मग्रीष्म- ' ( हैमोणा- ३४६) इति मप्रत्यये निपात्यते । ४ क्रोडे पादोऽस्य क्रोडपादः । ५ चतुर्धा अग्रतः पश्चात् पार्श्वयोश्च गतिरस्य चतुर्गतिः । ६ पञ्चाङ्गेन गुप्तः पञ्चाङ्गगुप्तः । ७ दुल्या अपत्यं दौलेयः । २० 'स्त्रीभ्यो ढक् ' ४ । १ । १२० । । ८ जीवति जीवथः । 'जीव प्राणधारणे' (भ्वा.प.से.), अथप्रत्ययः । उहारो देश्याम्, संस्कृतेऽपि । अष्टौ कच्छपस्य ॥ १० कच्छपी दुली ॥१३५३॥ १ [ कच्छे कच्छं वा पिबति कच्छपी । कच्छेन पाति वा । 'सुपि - ' ३ ।२ ।४ ॥ इति कः 1 ' जाते :४ । १ । ६३ ॥ इति ङीष् ] । २ दोलयति उत्क्षिपति जलमिति 'क्ष' (चु.प.से.), णिजन्त:, 'इगुपधात्' (उणा - ५५९) इति किदिः, 'बहुलमन्यत्राऽपि संज्ञाच्छन्दसोः ' ( ) इति णिलुक्, 'कृदिकारात्- ' ( वा - ४ ।१ । ४५ ॥ ) इति ङीष ३० दुली। “दुर्डिः”[ ं ]इति पञ्जिका । द्वे कच्छप्या: ।१३५३। ६२१ वर्षाभूः प्लवंगः शालुरजिह्व-व्यङ्ग-दर्दुराः । १३५४ १ मण्डयति भूषयति जलाशयं मण्डूकः । 'मडि भूषायाम्' (भ्वा.प.से.), 'शैलिमण्डि भ्यामूकण् (उणा - ४८२), तत्र । २ ह्रियते सर्पेण हरिः । 'हृञ् हरणे' (भ्वा.उ. अ.), 'अच इ: ' ( उणा - ५७८ ) । ३ शलति शालूर: । 'शल गतौ' (भ्वा.प.से.), 'खर्जिपिञ्जादिभ्य ऊरोलचौ’(उणा-५३०)इत्यूरः, "बाहुलकाद् वृद्धिः "["] इति स्वामी" । 'अन्येषामपि दृश्यते ६ |३ | १३७ ॥ इति दीर्घत्वम्"["]इति सर्वधरैः । तालव्यादिरयम् । “परि- ४० सरकृकलासस्वेदसालूर - ''[ ] इत्यूष्मभेदाद् दन्त्यादिरपि " ["] इति पञ्जिकासर्वधरौ । ४ प्लवते प्लवः । 'प्लुङ् गतौ ' (भ्वा.आ.अ.) पचाद्यच् । ५ बिभेति भेकः । 'ञिभी भये ' ( जु.प.अ.), 'इण्भीकापाशैल्यतिमर्चिभ्यः कन्' (उणा-३२३)। ६, ८ प्लवेन गच्छति प्लवङ्गमः, [ प्लवगः ] । गमेः खच् । ७ वर्षासु भवति वर्षाभूः, पुंसि । स्त्रियां वर्षाभ्वीत्यसाधुः, स्त्रीप्रत्ययलक्षणाभावात् । स्त्रियामपि वर्षाभूरित्येव भवति । अमरमालायां भागुरौ च वर्षाभ्वीत्येव दृश्यते । तन्मूलं चिन्त्यम् । स्वामी तु'भुवश्च' ४ ११ ४७ ॥ इति छान्दससूत्रेण ङीष् " [ अम. क्षीर. १।९।२४॥]इत्याह, तदयुक्तम्, 'वोतो गुणवचनात् ४ ११ । ४४॥ इत्यत ‘उत' इत्यनुवृत्तेः । तथा च तत्र वृत्ति:बह्वी, प्रह्वी, इह कस्मान्न भवति स्वयम्भूरिति, 'उत' इति तपरकरणमनुवर्तते, [ह] स्वादेवेयं पञ्चमी 'भुवः' इति । अन्ये तु मित्रय्वादिडुप्रत्ययान्ताद् वर्षाभुशब्दाद् ङीषि प्रयोगमिच्छन्ति । पुंसि त्वनभिधानमेव । ९ शृणाति शालुः । 'शृ हिंसायाम् ' (क्र्या.प.से.), 'कृशतृ ( ऋतृशृ ) - ' (हैमोणा - ७२७) इति णिदुर्लत्वं च रेफस्य । १० नास्ति जिह्वाऽस्य अजिह्वः । ईषदर्थेऽत्र नञ् । ११ विशिष्टमङ्गमस्य व्यङ्ग: । १२ दीर्यते दर्दुरः । दृ विदारणे' (क्र्या.प.से.), पृषोदरादिः । दर्दुरिति शब्दं ६० रातीति शब्दं रातीति वा । द्वादश भेकस्य ॥१३५४॥ स्थले नरादयो ये तु जले जलपूर्वकाः । 44 4 ४. मण्डूके हरि - शालूर -प्लव-भेक-प्लवङ्गमाः । १. 'कुरु-' इति१.३ ॥ २. 'चिल्लि' इति१ ॥ ३. स्वामिसम्मतोऽयं पाठः, 'चिल्ल शैथिल्ये भावकरणे च इति मैत्रेयसायणौ ॥ कोष्ठान्तर्गतपाठः १. ३ प्रत्योर्नास्ति ॥ ५. 'कर्कु-' इति४.५ ॥ ६ ' व ' इति१ ॥ ७ 'मदनिवासयो:' इति क्षीरतरङ्गिण्यादयः ॥ ८ ४.५ प्रत्योर्नास्ति ॥ ९ पयति' इति ॥ १०. 'दुलत्' इति३ ॥ ११. 'उत्क्षेपे' इति१. २, क्षीरतरङ्गिण्यादयश्च ॥ १२. 'डी' इति५ ॥ १३. द्र. पदचन्द्रिका, भा-१, वारिवर्ग:, श्रो- २५२, पृ. ३०१ ॥ ९४ मण्डति भूषति' इति३ ॥ १५. 'शा-' इति५ ॥ १६. 'खर्ज-' इति४.५ ।। १७ द्र. पदचन्द्रिका, भा-१, वारिवर्ग:, श्रो- २५१, पृ.३०० ॥ १८. अम. क्षीरस्वामिटीकायां न दृश्यते ॥ १९. श्रीधरः' इति५ ॥ २०. द्र टीकासर्वस्वम्, भा - १, ११० १२३ ॥ पृ. १९३ ॥ पदचन्द्रिका, भा-१, वारिवर्गः, श्री- २५२, पृ.३०१ ॥, रामाश्रमी १।१०।२४ ॥ शा-' इति२ ॥ 'या' इति३ ॥ २३. ' - ब्' इति३ ॥ २४. 'दु-' इति५ ॥ २५० 'करोतीति' इति२ ॥ पृ.१३ ॥ २१. २२. Jain Education International For Private Personal Use Only ५० www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy