________________
१२८७-१२९० ]
( उणा - ४८१ ) इत्युकप्रत्ययान्तो निपातितः, ततः 'प्रज्ञादिभ्यश्च ५ |४ | ३८ ॥ इत्यणि, 'तद्धितेष्वचामादेः '७।२ ।११७ ॥ इति वृद्धिः । २ भालयति ( भालयते) तिर्यक् प्रेक्षते भालूकः । भलधातोः 'उलूकादयश्च' (चान्द्रोणा - २।२) इत्यूकन्, अन्तस्थातृतीयैकषष्ठस्वरमध्योऽयम् । ३ ऋक्ष्णोति हिनस्ति ऋक्षः । ऋक्ष हिंसायाम् ' ( स्वा.प.से.), पचाद्यच् । ऋषति गच्छतीति वा । 'ऋषी गतौ ' ( तु.प.से.), बाहुलकात् 'सक्' ( ) इति वा । ४ अच्छेत्याभिमुख्येऽव्ययम्, अच्छ आभिमुख्येन भल्लति ( भल्लते) हिनस्ति १० अच्छभल्लः । पचाद्यच्, सङ्घातविगृहीतश्चायम् । अच्छ इति, भल्ल इति वा ।
२०
'अच्छः स्फटिकभल्लूकनिर्मलेष्वच्छमव्ययम् । आभिमुख्येऽथे कच्छः स्यात् "[मेदिनीकोशः, छान्तवर्ग:, श्रो- १ - २] इति मेदिनिः । " अच्छभल्लपरिषद्विहरति " [ ]इत्यभिनन्दः । ५ भल्लति (भल्लते) हिनस्ति भल्लूकः, दीर्घमध्यः । उलूकादयश्च' (उणा - ४८१ ) इत्यूकन् । ६ भल्लति (भल्लते) भल्लुकः, ह्रस्वमध्यः । 'मू(यू)कादयश्च'(चान्द्रोणा-२ ।२ ) इति कन्प्रत्ययो धातोर्भल्लुरित्यादेशश्च । रींछनामानि षट् ॥
व्युत्पत्तिरत्नाकरकलिता
सृगालो जम्बुकः फेरु: फेरण्डः फेरवः शिवा
॥१२८९ ॥
घोरवासी भूरिमायो गोमायुर्मृगधूंर्तकः
12
13
हूवो भरुजः क्रोष्टा
1
१ सृजति मायां सृगालः । 'सृज विसर्गे ' ( तु. प.अ.), 'तैमि [विशि] विडि- ' ( उणा - ११५ ) इति बाहुलकात् कालन्, न्यङ्क्वादित्वात् कुत्वम् । असृगालीयते, असृग् गिलतीति, पृषोदरादित्वाद् व, दन्त्यादिरयम् । शृङ्गं न लातीति शृगालः, तालव्यादिरपि । " शृगालो वञ्चके दैत्ये"
Jain Education International
१. ' - खेऽथ' इतिर, ख्योऽथ' इति५ ॥ २. री-' इति३ ॥ ३. द्र. पदचन्द्रिका, भा-२, सिंहादिवर्गः,
-२१९, पृ. २८० ॥ तत्र- " न्तीति अभिनन्दः” इति दृश्यते ॥ ४ ' भल्लू -' इति३.५ ॥ ५. 'ति - ' इत४ ॥ ५ 'दिर्वा' इति ॥ ७ 'शृङ्ग-' इति४.५ ॥ ८ 'जम्बुके' इति विश्वप्रकाशकोशे, पृ.१५७॥ ९ 'रास - इति१, 'रस-' इति२ ॥ १०. ' - नोऽपि' इति५ ॥ ११. 'शृङ्ग-' इति५ ॥ १२ द्र. पदचन्द्रिका, भा२, सिंहादिवर्गः, श्रो- २२०, पृ. २८२ ॥ रामाश्रमी २ ।५१५ ॥ पृ. २४१ ॥ तत्र - 'शम्बल -' इत्यस्य स्थाने ' - शम्बर-' इति दृश्यते ॥ १३. डित्त्वाट्टिलोपप्रङ्गाद् बुकोऽप्रसङ्गाच्चेदं विचारणीयम् ॥ १४ 'जम्बु- ' १.२.४ ॥ १५. १.३.४.५ प्रतिषु नास्ति ॥ १६. ' - दिर्वा' इति ॥ १७. 'अण रण-' इत्यादिदण्डकोऽयं धातुः ॥ १८. ३.४.५ प्रतिषु नास्ति ॥ १९ ४प्रतौ नास्ति ॥ २०. 'शृ-' इति३ ॥ २१. ' - न्तः' इति२ ॥ २२. '-सृ' इति३ ॥ २३. 'उर्वी-' इत्यादिदण्डकोऽयं धातुः ॥ २४ ' आह्वाने रोदने च' इति क्षीरतरङ्गिण्यादयः ॥
५९३
[विश्वप्रकाशकोशः, लान्तवर्ग:, श्रो- १०७] इति विश्वः । " तालव्या अपि दन्त्याश्च शम्बशम्बलशूकराः । रेशनाऽपि च जिह्वायां शृगालः कलशोऽपि च ॥१॥" ["] इति शभेदात् । २ जमत्यत्ति मांसादिकमिति जम्बुकः । 'जमु अदने ' (भ्वा.प.से.), मित्रद्यादित्वादुः (मितद्र्वादित्वाद् डुः), बुक् च, ततः कन् । उलूकादित्वादूकनि 'जम्बूक' इति दीर्घमध्योऽपि । " खरोष्ट्रपिकजम्बुकवायसा जम्बूको यमः "["] इति वाचस्पतिः । ३ 'फे' इत्यव्यक्तं रौति, मित्रद्रवादित्वाद् डुः फेरुः । 'फे' इति रौर्ति' फेरुः, पृषोदरादित्वात् । ४ 'फे' इति रणति फेरण्डः । ‘रणं शब्दे'(भ्वा.प.से.), 'ञमन्ताडुः ' (उणा-१११) । ५ 'फे' इति रवोऽस्य फेरवः । 'गुहारूपं वृषभेरुः फेरवस्तारवः शिवा । शूकरोऽतिरुजः फेरः(फेरुः ) श्वभीरुर्मण्डलाहित: ॥२॥” ["]इति साहसाङ्कः । ६ शेते दिवा शिव, रुद्रनामसु (लो- १९७) । शिवा दुर्गा तत्प्रियत्वाद् वा शिव । सृगालेऽप्ययं नित्यस्त्रीलिङ्गः । यच्छाश्वतः “शिवः कीलः शिवा क्रोष्टा भवेदामलकी शिवा " [ शाश्वतकोशः, श्रो१ (८)] इति ॥१२८९ ॥ ७ घोरं वाश्यते घोरवाशी, तालव्यान्तमयैः । 'वाशृ शब्दे'(दि.आ.से.), दिवादिरात्मनेपदी, ग्रहादित्वाणिनिः, घोरवाशिनावित्यादि । ८ भूरयो माया अस्य भूरिमायः । ९ गां विकृतां वाचं मिनोति ५० प्रक्षिपति गोमायुः । 'डुमिञ् प्रक्षेपणे ' (स्वा.उ.से.), 'कृवापाजिमिस्वदि- ' ( उणा - १ ) इत्युण्, 'मीनातिमिनोति- ' ६।१।५० ॥ इत्यात्वम्, 'आतो युक् चिण्कृतो: '७ । ३ । ३३ ॥ इति युक्, भानुशब्दवत् । १० मृगेषु वन्यपशुषु धूर्तोः मृगधूर्त:, ततः कनि मृगधूर्तकः । मृगान् धूर्वतीति वा । 'धूर्वी हिंसायाम् ' (भ्वा.प.से.), 'हसिमृगृ- ' ( उणा - ३६६ ) इति बाहुलकात् तन्, ततः स्वार्थे कन् । ११ 'हू' इति रवोऽस्य हूरवः । १२ बिभर्ति भरुजः । 'उटजादय: ' (हैमोणा१३४) इति साधुः । १३ क्रुशति क्रोष्टा । 'क्रुश आह्वानें "
For Private
Personal Use Only
३०
४०
www.jainelibrary.org